Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.210

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.210

Language
English

c70.s2.210

महादेव उवाच । निश्चलं मानसं जातं तव वाक्यविमोहितम् । कथयामास ते भद्रे गुणलक्षणसंयुतम्¹ ॥ 137. स्वर्णोत्पत्तिस्थलं² नित्यं सर्व्वत्रापि विधीयते । उत्पादनगतिस्तस्य स्थानं स्थाने पृथक् पृथक् ॥ 138. श्रूयतां वरदे देवि स्थाने चैव यथोदितम् । तस्य वातोत्यजा रेणुर्धमने स्वर्ण³ जायते ॥ 139. पावकाद्रेर्भुवावाहुः⁴ सप्तरत्नाकरे तथा । समुद्रस्य तटे दिव्ये स्थानं स्यात् स्वर्णकस्य च ॥ 140. स्वल्पं च सिन्धुदेशेन कामरूपैस्तथैव च । अन्यैस्तु विविधैः स्थानैः साम्प्रतोत्पत्तिर्जायते ॥ 141. तत्र तत्रोत्पत्तिस्तेषां यत्र यत्र हिमद्रवः । प्रसरन्ति भुवि संघाः⁵ संशयो नास्ति ते सदा ॥ 142. ताम्रोत्पत्तिश्च महता सुखेनैव प्रजायते । तेषां स्थानानि वक्ष्येऽहं⁶ याथातथ्येन च शृणु⁷ ॥ 143. नेपाले कामरूपे च⁸ वङ्गले मदनेश्वरे⁹ । गङ्गाद्वारे मलाद्रौ च म्लेच्छदेशे तथैव च ॥ 144. पावकाद्रौ जौर्य्यदुर्गे रूमदेशे फिरङ्गके । एतान्युदितस्थानानि¹⁰ सर्व्वपर्व्वतके¹¹ सदा ॥ 145.