History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.240
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.240
- Language
- English
c70.s2.240
पारदे गन्धके धात्वोः योग औषधज्ञात्¹ सदा।
मानसे निर्मले चैव लभ्यते² हाटकी क्रिया ॥ 153.
अन्यथा नैव लभ्या तु³ विना मन्त्रेण सिध्यति।
तस्मादेवं⁴ प्रयत्नेन निर्मलं मानसं शुभम् ॥ 154.
अशुभं समलं चैव मानसं सर्व्वदा भवेत्।
तस्मात्तु चतुराहारै⁵ सर्व्वदा शुभमानसः ॥ 155.
जायते च क्रिया सिद्धा हाटकी भवति सर्व्वदा।
मन्त्रसिद्धिः प्रजायेत सर्व्वकर्म्माणि साधयेत् ॥ 156.
अनेनैव प्रकारेण उत्तमा हाटकी क्रिया।
सर्व्वकार्य्यकरी नॄणां चतुर्व्वर्गफलप्रदा ॥ 157