History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.267
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.267
- Language
- English
c70.s2.267
महादेव उवाच ।
अथानन्तरता विद्या धातुसंस्कारकारिणी ।
जास्तवे² कठिने जाते शुद्धे कोमलकारिणी ॥ 39.
तथाच पीतशुल्वेषु जायते शुद्धनम्रता ।
श्रृणु यत्ने क्रिया दिव्याः शुद्धजास्तवसम्भवाः ॥ 40.
पिष्टं ह्ययखुरोत्थं च द्विगुणं धातुतः सदा ।
अर्द्धन्तु दापयेत् स्रावे अर्द्धं निम्ने च³ रचयेत् ॥ 41.
निर्मलं धातुजं द्रावं स्रावचूर्णेन ढालयेत् ।
यदर्द्धं च स्थितं निम्ने तत्कालं दापयेत् सुधीः ॥ 42
उपरि संपुटं देयं समुद्रकुकुटे पुटे⁴ ।
स्वाङ्गशीतं समुद्धृत्य जायते निर्मलं महत् ॥ 43.
जास्तवे सोमल देयम् उक्तभागेन⁵ साम्प्रतम् ।
चुर्णान्तरगतं कृत्वा उज्ज्वल जायते महत् ॥ 44.
तदेव⁶ जास्तवं चैव दिव्यम् उज्ज्वलगं सदा ।
रूप्यार्द्धे मेलयत्येव जायते शुद्धता शुभा ॥ 45.
अनेनैव प्रकारेण धनं किञ्चिच जायते ।
धने चैव तु संजाते कारयेदूर्द्धाः क्रियाः ॥ 46
अतौव शोभना विद्या रसगन्धकजा सदा ।
अतिसौभाग्यदा सा⁷ च साधके सुखदायिका ॥ 67.