History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.294
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.294
- Language
- English
c70.s2.294
त्रिःसप्तककृते तत्र¹ जायते निर्मलं शुभम् ।
तदुत्थान् कारयेत् पत्रान्² शुचिविद्वान् यथोदितान् ॥ 59.
रचयेद्यत्नपूर्वेण आनयेदर्किकं³ पयः ।
भावयेत् शुक्तिकाचूर्णम् उज्ज्वलं वङ्गशोधितम् ॥ 60
मईयेद्यत्नपूर्वेण यावल्लेपः सुलक्ष्यते⁴ ।
यवार्द्धं लेपयत्येव पत्रान् तु यत्नपूर्वकम् ॥ 61
छायाशुष्के च संजाते दापयेच्छुक्तिसंपुटे ।
चूडाद्यो लेपयत्येव सन्धौ यत्नेन मुद्रयेत् ॥ 62
मेलितो माषगोघूमौ पिष्टलेपं प्रदापयेत् ।
छायाशुष्के च संजाते मृन्मयं लेपं दापयेत् ॥ 63.
सुशुष्के च⁵ गजे पाच्यं स्वाङ्गशीतं⁶ समुद्धरेत् ।
जायते उज्ज्वलं वङ्गं वातशुष्कं तु कारयेत् ॥ 64
यः कश्चित् मूर्च्छितश्चैव⁷ जीवयेज्जीवनक्रियाम् ।
स हि वङ्गाश्रयेणैव⁸ उज्ज्वलः कठिनो⁹ भवेत् ॥ 65
अतिशुद्धतरं तच्च जायते नात्र संशयः ।
सर्व्वकर्मकरं श्रेष्ठं नानाभागेन पुञ्जितम् ॥ 66.
भोगभागसमायुक्तं वङ्गं च गुणसंयुतम् ।
लक्षणार्थे¹⁰ धनार्थे च¹¹ संयोगी साधयेत् सदा ॥ 67.