Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.309

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.309

Language
English

c70.s2.309

महादेव उवाच ।
लक्षणेन² च नारीणां भिन्ना भिन्नेन वर्त्तते ।
अनेका धनदा विद्या जायते सुभगा महत् ॥ 70.
अतीव शोभना सा च गुणसामर्थ्यदायिका ।
येन विज्ञानमात्रेण साधके धनमुत्तमम् ॥ 71.
जायते नैव सन्देहो धनसामर्थ्यकं महत् ।
अतिसौभाग्यसम्पत्तिर्जायते नात्र संशयः ॥ 72
आनयेत् शुद्धं तं वङ्गं गालयेत् टङ्कणैः सह ।
पिण्याकस्वरसे दिव्ये ढालयेद्यत्नपूर्वकम् ॥ 73.
सप्तदालकृते शुद्धे कठिनं रजतोपमम् ।
जायते नैव सन्देहः पुञ्जिते रजते शुभे ॥ 74.
रजतं जायते शुद्धं संभारं कारयेत् सुधीः ।
अन्येष्वेव विधिर्दिव्यो दिव्यरजतसंभवः³ ॥ 75
आनयेत् शोधितं वङ्गं तदर्द्धे पारदे क्षिपेत् ।
निधाय⁴ शोभने खल्ले तुर्य्यांशे दापयेत्ततः ॥ 76.
मर्दयेत् कन्यकावीर्यै र्यामं षोडश यत्नतः ।
हंसपद्या रसे दिव्ये तत्समं मर्दयेत् सुधीः ॥ 77.