History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.313
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.313
- Language
- English
c70.s2.313
समानाण्डरसेनेव मर्द्द्येद्यत्नपूर्वकम्¹ ।
छायाशुष्के च² संजाते शोषान्ते³ बालुके पचेत् ॥ 78.
अनेनैव प्रकारेण क्रमादग्निं प्रदापयेत् ।
प्रहराष्टकेऽष्टकेनैव त्रिवारं दृढं दापयेत् ॥ 79.
जायते च रसं दिव्यं भक्षणे च सुधासमम् ।
नारीणां दापयेद्यत्ने संयोगे नागकेसरैः⁴ ॥ 80
तदर्द्धः सुष्ठु⁵ गोधूमांः सहैवं तोलकार्द्धम् ।
अतिसौख्यकरं तच्च⁶ रक्तिमात्राद्धं वर्द्धते ॥ 81.
पुंसि अजगुणोपेते यथा च गंधकौ गतिः ।
नरार्थे भक्षणे यातो जातित्रयसमन्वितः ॥ 82.
अनेनैव प्रकारेणं क्रमेणं वर्द्धयेद्रसम् ।
जायते रसजा सिद्धिः नात्र कार्य्या विचारणा ॥ 83.
सुकृतं सुधाकरं वङ्गं गालयेद्यत्नपूर्वकम् ।
तज्जलं शोषयत्येव शतांशे रसदापिते ॥ 84.
रजतं जायते शुद्धे कलाद्वात्रिंशतः स्फुटम् ।
अन्यं वै मेलयत्येव विक्रये शुभदं महत् ॥ 85.
अनेनैव प्रकारेण जायते धनसंपदः ।
साधयेत् सिद्धिदा विद्या देहसामर्थ्यदायिनी ॥ 86.
मेलयेद्दुभोगभागेन मर्द्दनारंददो विधिः ।
धौते भावनया अग्नौ⁷ सार्द्धवृद्धेन सिद्ध्येत् ॥ 87,
शुद्धताम्रे प्रदातव्यं शतांशे हाटकोत्तमम् ।
जायते नात्र सन्देहो यथा जाम्बूनटोद्भवम् ॥ 88