Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.72

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.72

Language
English

c70.s2.72

शृणु देवि प्रयत्नेन सिद्धान्तवचनं मम।
येन विज्ञानमात्रेण जायते धातुकत्क्रिया ॥ 37.
प्रथमे धातुनामानि संक्षेपात् कार्य्यकारणम्।
कथयामि च ते भद्रे पश्चात् स्थानस्य संपदः¹ ॥ 38.
आदौ सुवर्णनामानि संक्षेपात् शृणुतां प्रिये।
स्वर्णं सुवर्णं सूर्य्यश्च हाटकं वह्निरोचनम् ॥ 39.
सु(स)रङ्गं च तथा लोहं देवधातुर्मनोहरम्।
वैश्यौ² विश्वासगं चैव धर्मदं ऋषिदेवता ॥ 40.
जीवनम् अमृतं चैव हेमं³ हिमवतोद्भवम्⁴।
देववल्लभमं दिव्यं संसारोत्तरणं महत् ॥ 41.
यौवनं सर्व्वलोकानां⁵ नारीणां रञ्जनं शुभम्।
अन्यानि विविधनामानि⁶ गोप्यगोप्यतराणि च⁷ ॥ 42.
रजतं च तथा रूप्यं चन्द्रश्चन्द्रस्य दीपकम्।
शुभ्रज्योतिःकरं⁸ खर्षेषद्वोजं तारकं तथा ॥ 43.
अनन्ता वर्त्तते तेषां कथा दृष्टिकराश्च ये।
स्थापितं लौकिकं चैव⁹ येनाग्रन्यसमूह्नम् ॥ 44.
शीतवीर्य्यं लघुवीर्य्यं विषघ्नं वातनाशनम्।
रसपुञ्जोकरं व्योदं धातुपुञ्जनकारकम् ॥ 45.
रतिदं बहुवीर्य्यं च शुभधाम च संचयम्।