History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.95
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c70.s2.95
- Language
- English
c70.s2.95
सीसकं¹ धातुभङ्गं च मृतकं रोचकं परम् ।
रक्तं च रक्तावोर्य्यं च² रक्तवस्तुविवर्द्धनम् ॥ 55.
अन्तरुप्यं च गम्भीरं धातुभञ्जनकारकम् ।
ग्राहकं रसराजेन अच्छेाभ्याच्छोभणं परम् ॥ 56.
विचित्रं विनतं चैव नानारङ्गप्रदायकम् ।
नागं नगालयं प्रोक्तं सिद्घकं कण्ठशोधनम् ॥ 57
घण्टं षयङ्करं³ चैव दुरितं षयङ्कारकम् ।
एतानि⁴ नागनामानि कार्य्यकाले प्रयोजयेत् ॥ 58.
लोहं च आयसं शूरं सूर्य्यकर्कविशारदम् ।
हन्तकं खननं स्वर्णमारकं⁵ ताटकं मलम् ॥ 59.
अजरं च जरायुक्तं धात्वाद्यम् अवनौसुतम् ।
कालेयं जौषणं कालं रुधिरं रोगनाशनम् ॥ 60
ग्रन्थिटं सर्व्वधातूनाम् अछोभ्यं जलवह्निषु ।
वह्निदं वह्निबौजं च सर्व्वधातुसहायकम् ॥ 61.
एतानि लोहनामानि ज्ञात्वा कर्म्माणि कारयेत् ।
जायते⁶ सकला सिद्धिर्वियोगयोगसंयुता⁷ ॥ 62.
नामानि धातुसंयोगे जातानि तानि च शृणु⁸ ।
शुल्बखर्परसंयोगे जायते पित्तलं शुभम् ॥ 63.
पित्तलं चैव नारोकं कपटं गन्धदुर्ज्ययम् ।
वर्णटं दुर्ब्बलं चैव रजतं बङ्गमं लघु ॥ 64.