History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c71.14
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c71.14
- Language
- English
c71.14
एवं परीक्षां कृत्वादौ प्रयोगानारभेद्वहुवम् ।
वल्लमूषां ततः कृत्वा शुद्धसूतं विनिक्षिपेत् ॥ 7.
लोहसूचीद्रावरसं तत्र यत्नेन निक्षिपेत् ।
तत्राग्निं तापयेद्यत्नात् पुनस्तत्र¹ रसं क्षिपेत् ॥ 8.
स सूतो मृततामिति² नात्र कार्य्या विचारणा ।
अष्टधातुषु तं सूतं दत्त्वा काञ्चनतां व्रजेत् ॥ 9.
तं सूतं भक्षयेद्यो हि सोऽमरत्वमवाप्नुयात्³ ।
तस्य मूत्रपुरीषेषु शुलवं⁴ भवति काञ्चनम् ॥ 10.
ताम्रद्रावप्रयोगं वै शृणु यत्नेन साम्प्रतम् ।
तद्रसं तु समादाय शुद्धताम्रे विनिक्षिपेत्⁵ ॥ 11.
तत्ताम्रं स्वर्णतां याति भैरवस्य प्रसादतः ॥ 12.