History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c71: Extracts from SUVARNATANTRA or SVARNATANTRA.
History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c71
- Language
- English
Extracts from SUVARNATANTRA or SVARNATANTRA.
c71.1
सुवर्णतन्त्रात् वा स्वर्णतन्त्रात् उद्धृताः श्लोकाः ।
c71.2
A = MS. from Benares \* B = MS. from Ramnákálí's matha, Dacca. †
c71.3
श्रीगणेशाय नमः।
c71.4
श्रीराम उवाच । देवंर्देव महादेव ऋद्धिबुद्धिफलप्रद । पूर्वं संसूचिता ऋद्धौ रसायनपरा परा ॥ 1. यस्याः साधनमात्रेण खारादतुल्यो नरो भवेत् । तां सिद्धिं वद मे देव यदि त्वं भक्तवत्सलः ॥ 2. पूर्वं तु कथितं देव रत्नतन्त्रं त्वया मम । गुटिकाः कथिताः पूर्वं सहस्रद्वितयं शिव ॥ 3. पारदाः कथिताः पूर्वं षट्शतं मृतिरूपकाः । धातूनामष्ट कल्पास्तु पूर्व्वमेव प्रकाशिताः ॥ 4. धातुयोगाख्यकल्पस्तु पूर्व्वमेव प्रकाशितः । रत्नानां करणे तन्त्रं पूर्व्वमेव प्रकाशितम् ॥ 5. किन्तु स्वर्णाख्यतन्त्रं तु न मह्यं कथितं प्रभो । कश्यपेन महेशानार्थितोऽस्मि महेश्वर ॥ 6.
c71.5
¹ \* The name of this MS. is सुवर्णतन्त्रम् ।
c71.6
² † The name of this MS is स्वर्णतन्त्रम् ।
c71.7
भूमिदानं मया दत्तम् ऋषये कश्यपाय वै ।
कश्यपेन मयि प्रोक्तं भूमिभागं त्यज प्रभो ॥ 7
स्थानार्थं तु महेशानं रत्नाब्धिः प्रार्थितो मया ।
वाणमात्रं स्थलं तेन दत्तं मम महेश्वर ॥ 8.
स्थानं प्राप्तं महेशान भक्षणं मम नास्ति वै ।
भक्षणं देहि मे देव यदि तुष्टोऽस्मि शङ्कर ॥ 9.
c71.8
ईश्वर उवाच ।
शृणु राम प्रवेक्ष्यामि रहस्यातिर्रहस्यकम् ।
स्वर्णतन्त्राभिधं तन्त्रं कल्पारूपेण कथ्यते ॥ 10.
तत्राद्यं स्वर्णतन्त्रस्य कल्पं शृणु सुपुत्रक ।
तैलकन्दाभिधः कन्दः सिद्धकन्दः प्रकीर्त्तितः ॥ 11
कन्दः कमलवत्तस्य पत्राणि कञ्जवच्छृणो ।
तथैव तु महत्पन्नं तैलं स्रवति सर्व्वदा ॥ 12.
जलमध्ये सदा पुत्र त्वाद्व एव प्रतिष्ठते ।
विषकन्देति विख्यातो विषाच्च कायनाशनं ॥ 13
तैलस्रावो महाकन्दः परितस्तैलमण्डलम् ।
दशहस्तमिते देशे सरते तैलमण्डलम् ॥ 14.
महाविषधरः पुत्र तदधो वसति ध्रुवम् ।
कन्दाधः कन्दच्छायायां नान्यत्र गच्छति प्रिये ॥ 15.
तत्परीक्षार्थंविधानार्थं कन्दे सूचीं प्रवेशयेत् ।
सूचौद्रावः क्षणात् पुत्र तत्कन्दन्तु समाहरेत् ॥ 16
तत्कन्दं तु समादाय शुद्धसूतं खलेत्रिधा ।
मूषायां निक्षिपेत् तन्तु -तत्तैलं तत्र निक्षिपेत् ॥ 17.
दीप्ताग्निं तु महाराम वंशाङ्गारैश्च तापयेत् ।
तत्क्षणान्मृतिमायाति लक्षवेधी भवेत् सुत ॥ 18.
ततः प्रभक्षयेद्राम चुन्निद्राक्षारको ध्रुवम् ।
तालं शुद्धं समानीय तत्तैलेन खलेत् सुत ॥ 19.
c71.9
सप्तधा प्रत्यहं राम त्वेवं विंशद्दिनं ध्रुवम् ।
हरितालो मृतिमेति निर्धूमो जायते ध्रुवम् ॥ 20.
अग्नौ पुत्र ततो दद्यान्निर्धूमो जायते सुत ।
तत्तालं चाष्टधातौ तु दद्याद्रावे कृते सति ॥ 21.
सर्ववेधी भवेद्देव शतविद्धो भवेत् सुत ।
तत्तैलं तु समादाय ताम्रंद्रावे विनिक्षिपेत् ॥ 22.
तत्क्षणात्ताम्रवेधः स्यात् दिव्यं भवति काञ्चनम् ।
वङ्गे कांस्ये यदा दद्यात्तदा रौप्यं भवेत् सुत ॥ 23.
ताम्रे लौहे तथा रौत्यां तारं खर्परसूतके ।
तत्क्षणात् वेधमायाति दिव्यं भवति काञ्चनम् ॥ 24.
c71.10
शंखद्रावस्य भेदान् हि तत्कल्याण् शृणु साम्प्रतम् ।
लौहद्रावस्तथा ताम्रद्रावश्चैव द्वितीयकः ॥ 1.
शंखद्रावस्तृतीयः स्यात् ह्यन्तालश्च(१)चतुर्थकः ।
दन्तद्रावः पञ्चमः स्यात् अम्लवेधी तु भक्ष्यमः ॥ 2.
पञ्चानां तु परिक्षा वै कथ्यते शृणु साम्प्रतम् ।
लौहसूचीं समादाय लौहद्रावे विनिक्षिपेत् ॥ 3
तत्क्षणाद्द्रवतां याति सा सूची नात्र संशयः¹ ।
ताम्रद्रावे तथा सूचीं सन्धिभेदीं विनिक्षिपेत् ॥ 4.
सूचीद्रावो याममात्राद्भवत्येव न संशयः ।
शंखद्रावे शंखसूची चतुर्यामेन संद्रवेत् ॥ 5.
ह्यन्तालोऽधो² यदा गच्छेत् दन्ताश्चाम्ला भवन्ति हि ।
दन्तद्रावोऽप्यधो गच्छेदृद्दन्तद्रावो भविष्यति ॥ 6
c71.11
¹ The above 7 hemistichs are not found in A
c71.12
² A reads दतायाधो। B reads दन्ताश्चाधो। Both the readings seem to be incorrect, since B has ह्यन्तालश्च चतुर्थकः in the 2nd Sloka.
c71.13
The above 24 Slokas are not found in MS A.
c71.14
एवं परीक्षां कृत्वादौ प्रयोगानारभेद्वहुवम् ।
वल्लमूषां ततः कृत्वा शुद्धसूतं विनिक्षिपेत् ॥ 7.
लोहसूचीद्रावरसं तत्र यत्नेन निक्षिपेत् ।
तत्राग्निं तापयेद्यत्नात् पुनस्तत्र¹ रसं क्षिपेत् ॥ 8.
स सूतो मृततामिति² नात्र कार्य्या विचारणा ।
अष्टधातुषु तं सूतं दत्त्वा काञ्चनतां व्रजेत् ॥ 9.
तं सूतं भक्षयेद्यो हि सोऽमरत्वमवाप्नुयात्³ ।
तस्य मूत्रपुरीषेषु शुलवं⁴ भवति काञ्चनम् ॥ 10.
ताम्रद्रावप्रयोगं वै शृणु यत्नेन साम्प्रतम् ।
तद्रसं तु समादाय शुद्धताम्रे विनिक्षिपेत्⁵ ॥ 11.
तत्ताम्रं स्वर्णतां याति भैरवस्य प्रसादतः ॥ 12.
c71.15
¹ B reads पुनस्तस्य, which is not correct.
c71.16
² B has सा सूतो मृतिमाप्नोति ।
c71.17
³ A reads स गच्छेदमरलता, which is incorrect.
c71.18
⁴ B reads शुल्वं ।
c71.19
⁵ शुद्धताम्रेषु निक्षिपेत्, a variant in B
c71.20
Colophon in A—इति श्रीसुवर्णतंत्रे हरपार्वतीसंवादे दुग्धशर्कल्पः द्वितीयः ।
c71.21
Colophon in B—इति स्वर्णतन्त्रे लोहद्रावादिपञ्च-फन्नकल्पो द्वितीयः ।
Linked texts (1)
- Suvarṇatantra — Sanskrit