Pramāṇa · Search · About · API

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c71.4

History of Chemistry in Ancient and Medieval India, Incorporating the History of Hindu Chemistry by Acharya Prafulla Chandra Ray c71.4

Language
English

c71.4

श्रीराम उवाच । देवंर्देव महादेव ऋद्धिबुद्धिफलप्रद । पूर्वं संसूचिता ऋद्धौ रसायनपरा परा ॥ 1. यस्याः साधनमात्रेण खारादतुल्यो नरो भवेत् । तां सिद्धिं वद मे देव यदि त्वं भक्तवत्सलः ॥ 2. पूर्वं तु कथितं देव रत्नतन्त्रं त्वया मम । गुटिकाः कथिताः पूर्वं सहस्रद्वितयं शिव ॥ 3. पारदाः कथिताः पूर्वं षट्शतं मृतिरूपकाः । धातूनामष्ट कल्पास्तु पूर्व्वमेव प्रकाशिताः ॥ 4. धातुयोगाख्यकल्पस्तु पूर्व्वमेव प्रकाशितः । रत्नानां करणे तन्त्रं पूर्व्वमेव प्रकाशितम् ॥ 5. किन्तु स्वर्णाख्यतन्त्रं तु न मह्यं कथितं प्रभो । कश्यपेन महेशानार्थितोऽस्मि महेश्वर ॥ 6.

Linked texts (1)