Pramāṇa · Search · About · API

The Positive Sciences of the Ancient Hindus c4.s2.38

The Positive Sciences of the Ancient Hindus c4.s2.38

Language
English

c4.s2.38

तत्रकार्यारम्भे पृथिव्यादिद्रव्यावस्थागुणा गन्धादयः खलु खसजातीयं गन्धविशेषादिकं आरभमाणाः यदारभ्यमाणं स्वस्वविजातीयं कार्यं स्यारम्भकं कारणञ्च शङ्खारादिस्यं गुणांशं उभयथा कुत्रचित् हत्वा कुत्रचित् न हत्वा स्वजातीयं गुणविशेषं आरभन्ते । यथा पारदगन्धकयोः संयोगे कज्जलीभूतद्रव्ये पारदस्यः शुक्लः शुक्लविशेषं आरभमाणः गन्धकस्यपीतः पीतमारभमाणः पारदस्यतीक्ष्णेन तैक्ष्ण्यमारभमाणेन विरोधिना बध्यते । सङ्गेनैव शौक्ल्यं सत्त्वगुणयोनिकं तमोगुणयोनिकेन तैक्ष्ण्येन विरोधिना बध्यते । गन्धकस्यपीतस्यौ च लोहितशुक्लौ रजःसत्त्वयोनिकौ वध्येते । तयोः शुक्ललोहितवधे तैक्ष्ण्यसमानयोनिः कृष्णः अभिव्यज्यते । इति पारदगन्धकोभयात्मके कार्य्ये श्वेतपीतमेलनेन सम्भाव्यं कार्य्यं यद्वर्णं तत् तीक्ष्णगुणेन वध्यते, तत्रकारणं शुक्ललोहितं हत्वा । एवं हिङ्गुले पारदगन्धकाभ्यामारभ्यमाणे यन्त्रविशेषे वह्निना पच्यमाने रजोबहुलयोगिकेन तीक्ष्णेन सत्त्वतमोगोनिकौ शुक्लकृष्णौ वध्येते । पारदस्यशुक्लङ्गन्धकस्यपीतमेलनेन सम्भाव्यं कार्य्यं वर्णं च वध्यते । रजोयोनिकलीहित्यं च अभिव्यज्यते इति । एवं हरिद्राचूर्णसंयोगेऽपि लीहित्यं अभिव्यज्यते चूर्णस्यतैक्ष्ण्येन हरिद्रास्यशुक्लकृष्णवधे । अथ भवधे यथा—हिङ्गुलवङ्गभस्मसंयोगे श्वेतलोहितवर्णमेव उभयात्मकं भवति पाटलवर्णं, न च तत्र हिङ्गुलस्य लौहित्यं वङ्गभस्मस्य शौक्ल्यं च केनापि वध्यते । एवं शुक्लसूत्रनिर्मितपटस्य शौक्ल्यमेव ।