The Positive Sciences of the Ancient Hindus c4.s3.21
The Positive Sciences of the Ancient Hindus c4.s3.21
- Language
- English
c4.s3.21
न तावत् समानजातीयमेव आरभते न भिन्नजातीयमिति नियमो वास्ति । समवायिकारणे एव समानजातीयत्वाभ्युपगमः न कारणास्तरविषय इति तदपि अनैकान्तिकम् । नापि अनेकमेव चारभते नैकमिति नियमोऽस्ति । अणुमनसोराद्यकर्म्मोरम्भाभ्युपगमात् । एकैको हि परमाणुराद्यं सकर्म्मारभते न द्रव्यान्तरं संहत्य इत्यभ्युपगम्यते । द्रव्यारम्भे एव अनेकचारम्भकत्वनियम इति चेत् न परिणामाभ्युपगमात् । तदेव तु द्रव्यं विशेषवदवस्थान्तरं आपद्यमानं कार्य्यं नामाभ्युपगम्यते । तच्च क्वचित् अनेकं परिणमते मृद्वीजाङ्कुरादिभावेन । क्वचिदेकं परिणमते क्षीरादि-दध्यादिभावेन । नेश्वरशासनं अस्ति अनेकं एव कारणं कार्य्यं जनयति इति।