Pramāṇa · Search · About · API

The Positive Sciences of the Ancient Hindus c4.s6.14

The Positive Sciences of the Ancient Hindus c4.s6.14

Language
English

c4.s6.14

तेषामनुमानेन विनाशः परिकल्प्यते। सर्व्वावयवेषु अन्तर्व्वहिच पाकपूर्व्वकपूर्व्वरूपादिविलक्षणगुणोपलब्धेरन्तःप्रवेशः कृशानोरनुमीयते तेन वेगवता वह्निद्रव्येण नोदनात् अभिघातात् वा नूनं घटारम्भकेषु अवयवेषु क्रिया जायते क्रियातो विभागः विभागात् द्रव्यारम्भकसंयोगविनाशः। तद्विनाशात् द्रव्यविनाशः। पश्चाच्च श्यामादिगुणानवजहतः रक्तादिगुणान्तरयोगमनुभवन्तः—अदृष्टप्रेर्थ्यमाणाः परस्परं संयुज्य द्व्यणुकादिक्रमेण तादृशमेव घटादिकार्य्यमारभन्ते। एवं तपनातपदृश्यमानेषु चाम्रादिफलेषु एष एव न्यायः। शरीरे अपि उदर्येण तेजसा पच्यमानेषु अन्नपानादिषु रसमलधातुभावेन परिणाममुपगच्छत्सु प्रायेण प्रतिक्षणमुत्पादविनाशौ संभवत इति। (Jayanta, Nyáyamañjarí, भूतचतन्य-पूर्व्वपक्ष.) This is the Vaiseshika view, but Jayanta himself inclines to the opposite view: प्रकृतिसुस्थिरतयैव कार्य्यद्रव्यस्य घटादेः आरम्भात् अन्तस्तेजःकणानुपवेशकृतपाकोपपत्तेः अलं विनाशकल्पनया। पिठरपाकपक्ष एव पेषलः। *ibid.* The Nyáya view: ये वीजायवयवास्ते पूर्व्वव्यूहपरित्यागेन व्यूहान्तरमापद्यन्ते व्यूहान्तरापत्तौ च पृथिवीधातुरब्धातुना संगृहीत आन्तरेण तेजसा पच्यमानो रसद्रव्यं निर्वर्त्तयति स रसः पूर्व्वावयवसहितोऽङ्कुरादिभावमापद्यते। परमाण्ववस्थानि वीजानि भवन्तीत्येतन्न प्रतिपद्यामहे। यस्माच्चात्यादिवोजमुच्छूनावस्थामादिं कृत्वा यावदुपान्त्यं शालिवीजकार्य्यं तावन्न कदाचित् परमाण्ववस्थं भवति। यदि तु स्यात् कदाचित् नोपलभ्येत।—Udyotakara, Chap. III., Áhnika 1, Sutra 4.

Linked texts (1)