The Positive Sciences of the Ancient Hindus c8.t5.30
The Positive Sciences of the Ancient Hindus c8.t5.30
- Language
- English
c8.t5.30
कृम्यादीनां पिपीलिकादीनां भ्रमरादीनां मनुष्यादीनां च यथासंख्यमेकैक-वृद्धानि इन्द्रियाणि भवन्ति । यथाक्रमम् । तद् यथा कृम्यादीनां अपादिक-नूपुरक-गण्डूपद-शङ्ख-शुक्तिक-शम्बूक-जलूका-प्रभृतीनां स्पर्शनरसनेन्द्रिये भवतः । पिपीलिका रोहिणिका-उपचिका-कुन्थुपुत्तुरक-त्रपुसबीज-कर्पासस्थिका-शत-पद्युत्पतक-तृणपत्र-काष्ठहारक-प्रभृतीनां त्रीणि स्पर्शनरसनघ्राणानि । भ्रमर-वरट-सारङ्ग-मक्षिकापुत्तिका-दंश-मशक-वृश्चिक-नन्द्यावर्त्त-कीट-पतङ्गादीनां चत्वारि स्पर्शनरसनघ्राणचक्षूंषि । शेषाणां च तिर्यग्यौनिजानां मत्स्योरगभु-जङ्गपक्षि-चतुष्पदानां सर्वेषां च नारकमनुष्यदेवानां पञ्चेन्द्रियाणि । (Umâsvati, *Tattvarthâdhigaṇa*, Chap. II., Sutra 24).
जरायुजानां मनुष्य-गो-महिषाजाविकाश्व-खरोष्ट्र-मृग-चमर-वराह-गवय-सिंह-व्याघ्रर्क्ष-द्वीपि-ऋ-शृगाल-मार्ज्जारादीनाम्। अण्डजानां सर्प-गोधा-कृकलास-गृहगोलिका-मत्स्य-कूर्म्म-नक्र-शिशुमारादीनाम् । पक्षिणां च लोमपक्षाणां-हंस-वाय-शुक-गृध्र-श्येन-पारावत-काक-मयूर-मद्गु-वक-बलाकादीनाम् । पोतजानां