The Positive Sciences of the Ancient Hindus c9.12
The Positive Sciences of the Ancient Hindus c9.12
- Language
- English
c9.12
(*Cf.* Vâgbhata, ता: हृत्स्था: शिरा: रसात्मकं ओज: अभिवहन्त्य:) । पञ्चभूतात्मके देहे आहार: पाञ्चभौतिक: । विपक्क: पञ्चधा सम्यग् गुणान् स्वानभिवर्द्धयेत् ।—Suśruta, *Sûtrasthâna*, Ch. XLVI.; *cf.* also वियत्पवनजाताभ्यां वृद्धिमाप्नोति मारुत:। आग्नेयमेव यद्द्रव्यं तेन पित्तमुदीर्य्यते ।—*Ibid.*, Ch. XLI. भौमाप्याग्नेयवायव्या: पञ्चोष्माण: सनाभसा: । पञ्चाहा- रगुणान् खान् खान् पार्थिवादीन् पचन्त्यनु । यथास्वं ते च पुष्यन्ति पञ्चा भूतगुणान् पृथक् । पार्थिवाः पार्थिवानेव शेषाः शेषांश्च देहगान् । अतिरिक्ता गुणा रक्ते वह्नर्मींसे तु पार्थिवाः । मदस्यपां भुवश्चास्थ्नि पृथिव्यनिलतेजसां ।—Charaka quoted by Dalvaṇa. आदौ षड्रसमप्यन्नं मधुरीभूतमीरयेत्, फेणीभूतं कफे यातं विदाहादम्लतां गतः । वायुना समानाख्येन ग्रहणीमभिनीयते । षष्ठी पित्तधरा नाम या कला परिकीर्त्तिता । आमपक्वाशयान्तस्था ग्रहणी साऽभिधीयते । अग्न्यधिष्ठानमन्नस्य ग्रहणाद् ग्रहणी मता । भुक्तमामाशये रुद्ध्वा सा विपाच्य नयत्यधः । बलवत्यबला त्वन्नमाममेव विमुञ्चति । ... अन्नस्य पक्तृ पित्तन्तु पाचकख्यं पुरेरितम् । दोषधातुमलादीनामुष्मेत्यात्रेयशासनम् । . . . तेजोरसानां सर्वेषामम्बुजानां यदुच्यते, पित्तोष्मणा सरागेण रसो रक्तत्वमृच्छति । वाय्वग्नितोजसा युक्तं रक्तं मांसत्वमृच्छति । श्लेष्माणं च समाश्रित्य मांसं वाय्वग्निसंयुतम्, स्थिरतां प्राप्य शौक्ल्यं च मेदो देहेऽभिजायते । पृथिव्यग्न्यनिलादीनां सङ्घातः श्लेष्मणावृतः, खरत्वं प्रकरोत्यस्य जायतेऽस्थि ततो नृणाम् । करोति तत्र सौषिर्य्यमस्थ्नां मध्ये समीरणः । मेदसा तानि पूर्य्यन्ते स्नेहो मज्जा ततः स्मृतः । तस्मान्मज्जज्ञ्च यः स्नेहः शुक्रं संजायते ततः ।—Charaka-Driḍhavala Saṃhitâ quoted by Aruṇa in his commentary on Vâgbhaṭa.)
Linked texts (2)
- Carakasaṃhitā — Agniveśa (Āyurveda) & Caraka, Sanskrit
- Suśrutasaṃhitā — Suśruta & Nāgārjuna (siddha/alchemist), Sanskrit