Vada in Theory and Practice: Studies in Debates, Dialogues and Discussions in Indian Intellectual Discourses c7.s5.52
Vāda in Theory and Practice: Studies in Debates, Dialogues and Discussions in Indian Intellectual Discourses c7.s5.52
- Language
- English
c7.s5.52
⁴⁰ पृच्छात्तन्त्राद् यथाम्नायं विधिना प्रश्न उच्यते। प्रश्नार्थो युक्ति मांस्तस्य तन्तरेणैवार्थनिश्चयः।। निरुक्तं तन्त्रणात् तन्त्रं स्थानमर्थप्रतिष्ठया। अधिकृत्यार्थमध्यायनामसंज्ञापरतिष्ठिता।। इति सर्वं यथाप्रश्नमष्टकं सम्प्रकाशितम्। कात्स्न्येन चोक्तस्तन्त्रस्य सङ्ग्रहः सुनिश्चितः।। पशुः पशूनां दौर्बल्यात् कश्चिन्मध्ये वृकायते। स सत्यं वृत्तमासाद्य प्रकृतिं भजते पशुः।। तद्वदज्ञोऽज्ञमध्यस्थः कश्चिन्मौखर्यसाधनः। स्थापयत्याप्तमात्मानमाप्तं त्वासाद्य भिद्यते।। बभ्रुर्गुढ इवोर्णाभिरबुद्धिरबहुश्रुतः। किं वै वक्ष्यति सञ्जल्पे कुण्डभेदी जडो यथा।। सद्द्वृत्तैर्न विगृह्लीयाद् भिषगल्पश्रुतैरपि। हन्यात् प्रश्नाष्टकेनादावितरांत्रूवाप्तमानिनः।। दम्भिनो मुखराः ह्यज्ञाः प्रभूताबद्धभाषिणः। प्रायः प्रायेण सुमुखाः सन्तो युक्ताल्पभाषिणः। तत्त्वज्ञानप्रकाशार्थमहङ्कारमनाशिरतः। स्वल्पाधाराज्ञमुखरान् मर्षयेन्न विवादिनः।। परो भूतेष्वनुकक्रोशस्तत्त्वज्ञाने परा दया। येषां तेषामसद्वादनिग्रहे निरता मतिः।। असत्पक्षाक्षणि-त्वार्तिदम्भपारुष्यसाधनाः। भवन्त्यनाप्ताः स्वे तन्तरे प्रायः परविकत्थकाः। तान् कालपाशसदृशान् वर्जयेच्छास्तरदूषकान्। प्रशमज्ञानविज्ञानपूर्णाः सेव्या भिषक्त माः।। — *Caraka Saṁhitā*, Sūtrasthāna, 30.69-83
Linked texts (1)
- Carakasaṃhitā — Agniveśa (Āyurveda) & Caraka, Sanskrit