Pramāṇa · Search · About · API

Vada in Theory and Practice: Studies in Debates, Dialogues and Discussions in Indian Intellectual Discourses c7.s5.76

Vāda in Theory and Practice: Studies in Debates, Dialogues and Discussions in Indian Intellectual Discourses c7.s5.76

Language
English

c7.s5.76

⁶¹ अथाहेतुः । अहेतुर्नाम प्रकरणसमः, संशयसमः, वर्ण्यसमश्चेति । अथातीतकालम् अतीतकालं नाम यत् पूर्वं वाच्यं तत् पश्चादुच्यते, तत् कालातीतत्वादग्राह्य भवति । पूर्वं वा निग्रहप्राप्तमनिगृह्य परिगृह्य पक्षान्तरितं पश्चान्निगृह्णीते तत् तस्यातीतकालत्वान्निग्रहवचनमसमर्थं भवतीति । अथोपालम्भः । उपालम्भो नाम हेतोर्दोषवचनम्, यथा पूर्वमहेतवो हेत्वाभासा व्याख्याताः । अथ परिहारः । परिहारो नाम तस्यैव दोषवचनस्य परिहरणम् । अर्थान्तरम् - अर्थान्तरं नामैकस्मिन् वक्तव्येऽपरं यदाह । यथा ज्वरलक्षणे वाच्ये प्रमेहलक्षणमाह । अथ निग्रहस्थानम् निग्रहस्थानं नाम पराजयप्राप्तिः । त्रिरभिहितस्य अपरिज्ञानम्, अननुयोज्यस्यानुयोगोऽनुयोज्यस्याननुयोगः, प्रतिज्ञाहानिः, अभ्यनुज्ञा, कालातीतवचतनम्, अहेतुः, न्यूनम्, अधिकम्, व्यर्थम्, अनर्थकम्, पुनरुक्तम्, विरुद्धम्, हेत्वन्तरम्, अर्थान्तरं च निग्रहस्थानम् । वादस्तु खलु भिषजां प्रवर्तमानो प्रवर्तेतायुर्वेद एव