Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s10.1

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s10.1

Language
English

v3.c24.s10.1

भूपतीनां च(चापि) सर्वेषामस्त्वग्राद्वाह्यादयः(दि)क्रमात् ।
वक्ष्ये संक्षिप्य तन्त्रेभ्यो नगरस्य तु लक्षणम् ॥ १ ॥
शतदण्डं समारभ्य शतदण्डविवर्धनात् ।
शतत्रयावसानं स्यात् शतदण्डं स(ण्ड)मारभेत् ॥ २ ॥
चतुःशतकदण्डान्तं शतत्रय(यं) समारभेत् ।
पञ्चा(ञ्च)शतावसानं स्यात्कन्यसादुत्तमान्तकम् ॥ ३ ॥
सहस्त्र(स्रं) द्विशताधिक्यं दण्डान्तं परिकल्पितम् ।
एकविंशद्विशालं स्यात्प्रत्येकं त्रिविधं भवेत् ॥ ४ ॥
अस्त्रग्राह्यस्यभूपस्य नगरस्य विशालकम् (लता) ।
दण्डं चतुःशता(शतमा) रभ्य शतपञ्चास(ञ्च) मारभेत् ॥ ५ ॥
षट्शतं दण्डमारभ्य शतदण्डविवर्धनात् ।
सहस्त्र(स्रं) द्विशताधिक्यं दण्डान्तं पूर्ववद्भवेत् ॥ ६ ॥
एवं नगरविस्तारं प्राहारकस्य भूपतेः ।
सप्ताष्टनवशताद्यैः शतदण्डविवर्धनात् ॥ ७ ॥
सहस्त्रत्रयदण्डान्तं पूर्ववद्विस्तृतं भवेत् ।
पट्टभाग्भूपतेश्चैवमष्टाष्टैकोनसंख्यया ॥ ८ ॥
सहस्त्रं च शताधिक्यं सहस्र(स्रं) द्विशताधिकम् ।
सहस्त्र(स्रं) त्रिशताधिक्यं शतदण्डविवर्धनात् ॥ ९ ॥
सहस्त्रत्रिशतं नन्दं शत(न्दसमं) दण्डावसानकम् ।
पूर्ववत्प्रोक्तविस्तारं विस्तारं मण्डलेशके ॥ १० ॥
चतुःसहस्राष्टशतदण्डान्तं पूर्ववत्सुधीः ।
एतत्पट्टधरो(र)योग्यं(ग्यं)नगरस्य विशालता ॥ ११ ॥
तथा पञ्चशताधिक्यं दण्डं पञ्चसहस्रकम् ।
दण्डान्तं पूर्ववद्वृद्ध्या पाष्र्णी(र्थि)कस्य च नगरे ॥ १२ ॥