Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s10.2

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s10.2

Language
English

v3.c24.s10.2

षट्शतं षट्सहस्रं च दण्डान्तं पूर्ववद्भवेत् ।
नरेन्द्रस्यापि नगरं त्रिचतुष्टयस्य संख्यया ॥ १३ ॥
षट्सहस्रं नवशतं दण्डान्तं पूर्ववद्भवेत् ।
महाराजस्य नगरमेवं प्रोक्तं तु पूर्ववत् ॥ १४ ॥
शतद्वयसमायुक्तं दण्डान्तं सप्तसहस्र[क]म् ।
चक्रवर्तेस्तु नगरं(र) विशालं पूर्ववद्भवेत् ॥ १५ ॥
अथवाऽयुतदण्डान्तं महती नगरी भवेत् ।
विस्तारादर्धिकं वाऽथ पादं(दो) नद्विगुणं तु वा ॥ १६ ॥
द्विगुणान्तं तदायामं नगरस्य तु विस्तृतम् ।
अथवा दण्डमानेन दण्डदण्डविवर्धनात् ॥ १७ ॥
तद्विस्तारसमाधिक्यमायामं प्रविधीयते ।
खेटकखर्वटकादीनां(दि)मानं ग्रामोक्तवद्भवेत् ॥ १८ ॥
सर्वेषां नगरादीनां भेदं(दो) लक्षणमुच्यते ।
नगरं राजधानीयं केवलं नगरं तथा ॥ १९ ॥
पुरं च नगरी चैव खेट(टं) खर्वटमेव च ।
कुब्जकं पत्तनं चैव शिविरं वाहिनीमुखम् ॥ २० ॥
स्थानीयं द्रोणकं चैव संविद्धं कोलकं ततः ।
निगमं स्कन्धावारं च दुर्गं चाष्टविधं भवेत् ॥ २१ ॥
नगरादीनि(दि) संग्रामं [च] प्रोक्तदुर्गं च सप्तमम् ।
राष्ट्रमध्ये नदीतीरे बहुपुण्यजनावृतम् ॥ २२ ॥
मध्ये राजयुतं चैव नगरं कृतमिष्यते ।
तत्रागते नगर्यन्तं यदि विष्ण्वालयं भवेत् ॥ २३ ॥
राजधानीति तन्नाम विद्वद्भिरुच्यते सदा ।
चतुर्दिक्षु चतुर्द्वारं गोपुरैश्च समन्वितम् ॥ २४ ॥
रक्षागृहैः समाकीर्णं विष्वक्सेनालपान्वितम् ।
वणिग्भिश्च समाकीर्णमापणैश्च समावृतम् ॥ २५ ॥
अन्तर्बहिर्जनैः पूर्णां(र्णा) नानादेवालयैरपि ।
केवलं नगरं प्रोक्तं यदेवं(तत्) तन्त्रपारगैः ॥ २६ ॥

Linked texts (1)