Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s10.4
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s10.4
- Language
- English
v3.c24.s10.4
तस्मान्तु तत्र विद्वद्भिः संविद्धं तदुदीरितम् ।
महाराष्ट्र(ज)स्य मध्ये तु गृहं तत्कोशकात्मकम् ॥ ४१ ॥
द्विजातिचतुर्वर्णैर्वर्णान्तरजनैर्वृतम् ।
बहुकर्मकरैर्युक्तं निगमं तदुदाहृतम् ॥ ४२ ॥
नद्यादिकाननोपेतं बहुतीरजनालयम् ।
राजमन्दिरसंयुक्तं स्कन्धावारमुदाहृतम् ॥ ४३ ॥
पार्श्वे चान्यद्विजातीनां गृहं तन्नेरिका(कम)दितः(क्तम्) ।
शत्रुभूषालहित्व्यर्थं नृपरक्षणदुर्गकम् ॥ ४४ ॥
वक्ष्ये यथाक्रमं सर्वा[न]नि दुर्गाणि दुर्गकम् (कं च) ।
गिरिदुर्गं वनदुर्गं सलिलं पङ्कदुर्गकम् ॥ ४५ ॥
रथा(थ)दुर्गं देवदुर्गं मिश्रदुर्गं तथैव च ।
पर्वतावृत[तन्]मध्ये(च) पर्वतस्य समीपके ॥ ४६ ॥
पर्वताग्रप्रदेशे तु गिरिदुर्गमिति त्रिधा ।
तज्नपर्जन्यान्तरो(र)युक्तं गगने च प्रवेशनम् ॥ ४७ ॥
एतत्तु वनदुर्गं स्याज्जलदुर्गमिहोच्यते ।
समुद्रैश्च नदीभिश्च संवृतं जलदुर्गकम् ॥ ४८ ॥
पर्वत(त)कन्दरैर्युक्तं दुष्प्रवेशं च शत्रुभिः ।
दुर्गं तु कृत्वा नृपतिस्तिष्ठेत्तत्पङ्कदुर्गकम् ॥ ४९ ॥
वनाभावे जलाभावे सर्वशून्यादिरूपकम् ।
चौरैश्च सङ्कुलस्थानं नि[र्]मार्गं रथदुर्गकम् ॥ ५० ॥
महाराक्षसवेताल(ल)भूतप्रेतादिभैरवैः(वाः) ।
शिलावर्षं प्रवर्षन्तीरा(न्या)लोक्य वेशानिर्गमे ॥ ५१ ॥
मन्त्रतन्त्रादिसामर्थ्यैः कृतान्तं देवदुर्गकम् ।
अनेकपर्वतोपेतं नानाव्रनमिश्रकम् ॥ ५२ ॥
तन्त्रास्थितं तु तद्दुर्गं मिश्रदुर्गमिति स्मृतम् ।
सर्वेषामपि दुर्गाणां वप्रैश्च परिधै(खाभि)र्वृतम् ॥ ५३ ॥
प्रवेशानिर्गमस्थाने द्वारैरपि समन्वितम् ।
इष्टकादिकृतं वप्रं हस्तद्वादशकोच्छ्रितम् ॥ ५४ ॥