Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s10.3
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s10.3
- Language
- English
v3.c24.s10.3
काननोद्यानसंयुक्तं नानाजनगृहान्वितम् ।
क्रयविक्रयविद्भिश्च वैश्यरवेषसंमि (संयु) तम् ॥ २७ ॥
देवसप्तसमायुक्तं पुरमेतत्प्रकथ्यते ।
अस्यान्ते राजनिलय नगरीति तमि (दि) ष्यते ॥ २८ ॥
नदीपर्वत [न] प्रान्ते [च] शूद्रालयसमन्वितम् ।
महाप्रावृतसंयुक्तं खेटमुक्तं पुरातनैः ॥ २६ ॥
परितः पर्वतैर्युक्तं नानाजातिगृहैर्वृतम् ।
सर्वप्रचारसंयुक्तमेतत्खर्वटमीरितम् ॥ ३० ॥
खेटखर्वटयोर्मध्ये सर्वमध्या (स्यां) लयान्वितम् ।
वप्राभावस्वते (त्वे तु) तन्तु कुब्जकमुदाहृतम् ॥ ३१ ॥
अब्धितीरप्रदेशे तु नानाजातिगृहैर्वृतम् ।
वणिग्जातिभिराकीर्णं क्रयविक्रयपूरितम् ॥ ३२ ॥
रत्नैर्द्विपान्तरैर्नीत्यैः (रानीतैः) क्षौमैः कर्पूरकादिभिः ।
एतत्पत्तनमाख्यातं वप्रायतसमन्वितम् ॥ ३३ ॥
अन्यभूपालभूम्यन्ते युद्धारम्भक्रियान्वितम् ।
सेनानामयुतानां च पृतनाभिः समन्वितम् ॥ ३४ ॥
तदेवच्छिबिरं प्रोक्तं तन्त्रविद्भिः पुरातनैः ।
नानाजनैश्च संपूर्णं भूपहर्म्यैश्च संयुतम् ॥ ३५ ॥
बहुरक्षममोपेतमेतत्सेनामुखं भवेत् ।
नदीपार्श्वाद्विसंयुक्तं भूपालालयसंमि (संयु) तम् ॥ ३६ ॥
बहुरक्षसमायुक्तं नित्यं संभ्रपसंयुतम् ।
स्थानीय सर्वविद्भिद्भिः प्रोक्तं बहुसुखावम् ॥ ३७ ॥
समुद्रा (द्र) तटिनीयुक्तं तटिन्या दक्षिणोत्तरे ।
वणिग्भिः सह नानाभिर्जनैर्युक्तं जनास्पदम् ॥ ३८ ॥
नगरस्य प्रतितटे ग्राहकैश्च समावृतम् ।
क्रयविक्रयसंयुक्तं द्रोणान्तरमुदाहृतम् ॥ ३६ ॥
महाग्रामसमीपे तु क्षुल्लकग्रामसंयुतम् ।
तद्रामोत्तरनास्खादम (तन्नगरं स्याद (श्रयाद) महारोपजीविनाम् ॥ ४० ॥