Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s12.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s12.1
- Language
- English
v3.c24.s12.1
देवानामालयादीनां द्विजातीनां च वक्ष्यते ।
गृहग्रामादि सर्वेषां गर्भविन्यासमुच्यते ॥ १ ॥
नानाद्रव्यसुसंपूर्ण गर्भं सर्वशुभप्रदम् ।
हीनद्रव्यमनेश्वर्यं गर्भं तदशुभप्रदम् ॥ २ ॥
गर्भव्यासं तु तस्मात्तु निक्षिपेत्सम्यगुक्तवत् ।
गर्भावटस्य निम्नं स्यादधिष्ठानसमोन्नतम् ॥ ३ ॥
इष्टकैरपि पाषाणैश्चतुरश्रं समं भवेत् ।
जलं संपूय्य(सृज्य) तन्मूले तस्यान्तं सर्वमृत् क्षिपेत् ॥ ४ ॥
नयाद्रिमृत्तिका चैवं वल्मीकस्य तु मृत्तिका ।
कर्कटावटमृद्धिश्च खनित्वलमिति स्थित(तम्) ॥ ५ ॥
समुद्रतीरमृद्धिश्च वृषभशृङ्गस्य मृत्तिका ।
गोखुराम्रमुखैश्च चैवं तु दश (सप्त) मृत्तिका ॥ ६ ॥
तदूर्ध्वे मध्यदेशे तु पीनकं तं (पद्मकन्दं) विनिक्षिपेत् ।
इन्द्रे चोत्पलकन्दंतु याम्ये कौमुदकन्दकम् ॥ ७ ॥
पश्चिमे न्यस्य सौगन्धिं काकोली (कलीं) तु चोत्तरे ।
तस्योपरि विन्यसेदष्टधान्यं यथाक्रमम् ॥ ८ ॥
शालिमीशानके न्यस्य व्रीहिं प्राग्दिशि विन्यसेत् ।
कोद्रवं चाग्निकोणे तु कङ्गुं याम्ये तु विन्यसेत् ॥ ६ ॥
मुद्गं नैर्ऋत्यकोणे तु मा' प्रत्यग्विनिक्षिपेत् ।
कुल (त्य) त्थं वाम(यु) कोणो तु तिलं विन्यस्य चोत्तरे ॥ १० ॥
तस्य चोपरि निक्षिप्य मञ्जूषान्तं विनिर्मितम् ।
सन्मानं चैकभूमाद्दिद्वादशाशं(न्तं) तङ्गानि (नां) वै ॥ ११ ॥