Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s12.2

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s12.2

Language
English

v3.c24.s12.2

हर्म्याणां तद्वशालुर्यात्तत्तदाकारवद्भवन् ।
त्रिचतुर्मात्रमारभ्य द्विरङ्गुलविवर्धनात् ॥ १२ ॥
पञ्चपञ्चविंशमात्रान्तं द्वादशं विपुलं भवेत् ।
तद्विस्तारसमं वापि तदष्टांशोनमेव च ॥ १३ ॥
पञ्चांशोन (शोनेान) मेवं वा गर्भभाजनमु (स्यो) क्त्यम् ।
एवं चतुर्विधं ( रंशोनं) प्रोक्तं (स्याद्) दण्डमानेन वक्ष्यते ॥ १४ ॥
हर्म्यपादस्य विष्कम्भसमं मञ्जूषविस्तृतिः ।
तदष्टांशैकहीने वा तत्त्रिपादं प्रकल्पयेत् ॥ १५ ॥
तुङ्गं प्रागुक्तवत्कुर्याद्वित्ति (ते) रातिमिहोच्यते ।
एकद्वित्रि(त्र) यमेवापि सर्वभित्तिविशालकम् ॥ १६ ॥
सद्भिस्तिभागमेकं वापि विधानं तदुच्छ्रयम् ।
मञ्जूषोच्छ्रं (च्छ्रय) चतुर्भागं तत्तदेका (कमा) सनं भवेत् ॥ १७ ॥
तद्द्वयं चाह्रितुङ्गं तु सार्धैकांशं प्रस्तरान्वितम् ।
त्रिवर्गमण्डपाकारमङ्घ्रिः स्त्वा (पञ्च) न्तं प्रविष्टके ॥ १८ ॥
पञ्चविंशतिकोष्ठं वा नवकोष्ठै (नव) कमेव च ।
एकांशं कोष्ठभित्त्युच्चं घने प्रागुक्तवन्नयेत् ॥ १६ ॥
उपपीठपदे देवान् कोष्ठं (ष्ठे) चोक्तक्रमं न्यसेत् ।
पूर्वान्हं च तदा ज्ञात्वा कारयेदधिवासनम् ॥ २० ॥
गन्धाक्षतैश्च पुष्पैश्च धूपदीपेन चार्चयेत् ।
सकलीकरणं कुर्यात्पुण्याहं वाचयैत्ततः ॥ २१ ॥
स्थिरवास्तुं ततो गच्छेद्वस्तारे तु पदैः सह ।