Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s12.5

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s12.5

Language
English

v3.c24.s12.5

चालयेत्पञ्चगव्यैस्तु गर्भमञ्जूषिकां बुधः ।
सूत्रैरावेष्टनं कुर्यात्तस्य चोपरि विन्यसेत् ॥ २४ ॥
तदेव गन्धजलैः पूर्णकुम्भं विनिक्षिपेत् ।
परितस्तु चतुर्विंशत्कलशान् जलपूरितान् ॥ २५ ॥
निक्षिप्य सूत्रैरावेष्ट्य वस्त्रं पल्लवकूर्चकैः ।
अलङ्कृत्य स्थपति(श्च) वरवेषोत्तरीयवान् ॥ २६ ॥
गन्धपुष्पैः समभ्यर्च्य भुवनाधिपतिं जपेत् ।
तस्य [प्र]दक्षिणपार्श्वे [तु] चाक्षतैः स्थण्डिलं न्यसेत् ॥ २७ ॥
ब्रह्मादिदेवतानां च सामान्यं हि बलिं क्षिपेत् ।
तत्प्राचि देशे सौम्ये तु जुहुयाद्वास्तुहोमकम् ॥ २८ ॥
प्रत्येकं पञ्चविंशैत्सत्समिद्वा(घा)ज्यं तिलं चरुम् ।
ब्रह्मार्कविवस्वांश्च मित्रभूधरदेवताः ॥ २६ ॥
एतेभ्यो नामविस्तारमादिमन्त्रं समुच्चरेत् ।
[स्वाध्यायवेदघोषैस्तु] सह मङ्गलघोषषैः ॥ ३० ॥
पश्चात्तु स्थण्डिलं कुर्याच्छुक्लशालिभिरर्चतैः ।
प्रादव(अक्षतं) न्यस्य मण्डूकमथवा परमासनम्(शायिकम्) ॥ ३१ ॥
दर्भ प्रस्तरणं कृत्वा दर्भैरास्तीर्य चोपरि ।
सकलाख्यं पदं कृत्वा [दर्भैरास्तीर्य] जलपुष्पकैश्च बुधः ॥ ३२ ॥
व्याहृत्यन्तो यदा वह्निं होमस्थानं विसर्जयेत् ।
शालिभिस्तिलकं कृत्वा पश्चाद्धामस्य चोत्तरं ॥ ३३ ॥
पीत्वा शुद्धं पयोऽप्येस्तु (रात्रौ) शयेत्ततन्निच्छ(यीत शि)ल्पतन्त्रवित् ।
सूत्रग्राही तक्षकश्च वर्धकी द्रव्यसंयुतम् ॥ ३४ ॥
तत्रस्थं स्थपतिं श्रेष्ठं सेवां कुर्यात्तु जाग्रतः ।
स्वाध्यायं मन्त्रघोषैश्च ब्राह्मणैश्च युतस्ततः ॥ ३५ ॥
पश्चात्स्नात्वा तु वाचम्य विश्रत[स्तु] प्रविशयेत् ।
सकलीकरणं कृत्वा स्थपतिर्वरवेषवान् ॥ ३६ ॥