Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s12.6

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s12.6

Language
English

v3.c24.s12.6

सुमुहूर्ते सुलग्ने च तद्रव्यभाजनात्ततः ।
निक्षिप्य चोक्तवत्पश्चात्सर्वमङ्गलघोषषैः ॥ ३७ ॥

स्वस्तिं वृषभं चैव लक्ष्मीं दर्पणमेव च ।
स्वर्णेन स्वस्तिकं (स्तं च) कुर्याद्वृषभं चायसेन तु ॥ ३८ ॥ 76

लक्ष्मीं ताम्रेण कुर्यात्तु दर्पशं रजतेन तु ।
स्वस्तिकं चेन्द्रकोष्ठे तु चतुः(त्वारं) विन्यस्य क्रमात् ॥ ३९ ॥

जयन्ते कोष्ठके चैव जातिहिङ्गुल्य(लं) निक्षिपेत् ।
हरितालं भृशे वासे वितथे च मनःशिला (लाम्) ॥ ४० ॥ 80

विन्यसेद्गृहराजस्य कोष्ठके माक्षिकं निक्षिपेत् ।
सुग्रीवस्य तु कोष्ठे तु राजावर्त्तं(तं) तु निक्षिपेत् ॥ ४१ ॥

शोषे गैरिकं न्यस्य मुख्यके चास्य (ऽञ्जनं) निक्षिपेत् ।
अदिते(ता) गन्धकं न्यस्य मधु (पद्म) रागं तु मन्मथे ॥ ४२ ॥ 84

ततश्चाप्य (र्ये) प्रवालं तु साविन्द्रे (श्रे) पुष्परागकम् ।
विवस्वते (ति) च वैसू (डू) यं वज्रमिन्द्रस्य कोष्ठके ॥ ४३ ॥

मित्रकस्येन्द्रनीलं स्यात्तथा रुद्रस्य कोष्ठके ।
महानीलं विनिक्षिप्य मरतकं (कतं) तु भूधरे ॥ ४४ ॥ 88

मुक्ता [म] प्वत्स्ववासेषु विन्यसेत्तु यथाक्रमम् ।
विष्णु कान्ताभि(चक्रमीश) कोष्ठे तु त्रिशूलं चेन्द्रकोष्ठके ॥ ४५ ॥

श्रीदेव्या (वीम) न्प्रिकोष्ठे तु श्रयन्ते(न्तं) निह(यम) कोष्ठके ।
दूर्वा नैर्ऋत्यकोष्ठे तु भृङ्गीं वारुणकोष्ठके ॥ ४६ ॥ 92

अपा (प) मार्गं च वायव्ये चैकपत्राम्युजो (जमु) त्तरे ।
विन्यसेद्योषधिं चाष्टौ सुशाल (महेन्द्र) मेवं क्रमात्ततः ॥ ४७ ॥

जयन्ते (पर्जन्ये) चन्दनं क्षिप्य चान्तरिक्षेऽगुरुं तथा ।
विथते (पूष्णि तु) क्षिप्य कर्पूरं भृगे (शे) शैलं विनिक्षिपेत् ॥ ४८ ॥ 96

सुग्रीवे च (दौवारिके) लवङ्गं स्याद्रोगे ह्वायायतं (एलांलवां) क्षिपेत् ।
मुख्ये (नागे) जातिफलं क्षिप्य उ (चो) दिते कोलकं न्यसेत् ॥ ४९ ॥

Linked texts (2)