Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s12.7
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s12.7
- Language
- English
v3.c24.s12.7
कपालं च त्रिशूलं च खट्वाङ्गं खण्डमेव (परशुं) च ।
वृषभं चैव साम्बं (पिनाकं) च हरिणं शार्ङ्गमेव च ॥ ५० ॥
एवं चाष्टविधं रूपं सौ(सा)वर्णेन प्रकल्पयेत् ।
इन्द्रादिकोष्ठेषु कपालादि(र्दिं) न्यसेत्क्रमात् ॥ ५१ ॥
गर्भभाजनमाच्छाद्य विधानेन तु निष्फलम् ।
तद्भाजनं च ताम्रे [ण] प(व)रवेष(पो) गुरोः (रुणा) सह ॥ ५२ ॥
वास्तुप्रदक्षिणां कुर्यात्स्त्रापयेत्स्थपतिर्बुधः ।
घटादि कलशं चैव [तेषां] तज्जलेनाभिषेचयेत् ॥ ५३ ॥
स्वाध्यायवेदघोषैश्च सर्वमङ्गलघोषवैः ।
भाजनान्तं (जने तं) समान्तश्च ध्या(चा) शैलादि विवस्वतः ॥ ५४ ॥
ध्यात्वाऽनन्तस्य मूर्त्ति [तदूर्ध्वं] धरातलं तु (स) सागरम् ।
पर्वताष्टमहानागैर्(गम)ष्टदिक्पालकैः (कान्) क्रमात् ॥ ५५ ॥
तत्तत्स्वनाममन्त्रेण पूजयेच्च विशेषतः ।
सृष्टिं(स्रष्टारं) विश्वकर्माणं ध्यानं कृत्वा तु वार्चयेत् ॥ ५६ ॥
सृष्टिस्थितिलयाधारं भुवनाधिपतिं मनाक् ।
गन्धपुष्पादिधूपैश्च नैवेद्यादिभिरर्चयेत् ॥ ५७ ॥
सारदारु शिला(लां) वापि चेन्द्रनी(की)लं प्रकल्पयेत् ।
त्रिचतुष्पञ्चमात्रं वा स्वस्तिकं तद्विधायतम् ॥ ५८ ॥
चतुरश्रं तु तन्मूले वृत्तं वाथ तदग्रकम् ॥ ५९ ॥
एवं द्वित्र्यङ्गुलं वापि लोहजैः (ज) प्रतिमोदयम् ।
चतुर्भुजं त्रिनेत्रं च जटामकुटभूषितम् ॥ ६० ॥
वरदाभयसंयुक्तं कृष्ण्वापरशुधारिणम् ।
स्थानकं चासनं वापि एतत्तु प्रतिमं भवेत् ॥ ६१ ॥
कीलतारसममध्यर्धं द्विगुणं वा ग (फ) लक भवेत् ।
चतुरश्रं समं कृत्वा सारदारुजला (ह्या वा) श्मना ॥ ६२ ॥