Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s13.2

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s13.2

Language
English

v3.c24.s13.2

चतुर्भागं पञ्चभागं वा षट्सप्ताष्टकमेव च।
पूर्ववन्निर्गमं प्रोक्तं यन्मानोरम्य(म्यं) मानतः ॥ १३ ॥
अथवा हस्तमानेन निर्गमं तत्प्रवक्ष्यते।
एकहस्तं समारभ्य चतुर्यंशेन वर्धनात् ॥ १४ ॥
तन्निहस्तावसानं स्यान्निर्गमं नवधा भवेत्।
अथवा दण्डमानेन चोपपीठस्य निर्गमम् ॥ १५ ॥
दण्डं सार्धं द्विद्ण्डं वा सार्धद्विदण्डमेव च।
त्रिदण्डं सार्थमाधिक्यं चतुर्दण्डमथापि वा ॥ १६ ॥
पञ्चषट्सप्तदण्डं वा दण्डाष्टनवदण्डकम्।
निर्गमं चोपपीठं(ठस्य) स्यात्पादबाह्यावसानकम् ॥ १७ ॥
एतत्तु निर्गमं प्रोक्तं गण्यमानमिहोच्यते।
उत्सेधे तु चतुर्विशत्यञ्शांशो(शमु)पानमीरितम् ॥ १८ ॥
एकेन कम्पमित्युक्तं ग्रीवोर्ध्वं द्वादशान्तिकम्।
कम्पमेकं तु वेदांशं वाजनं कम्पमंशकम् ॥ १९ ॥
वेदिभद्रमिति प्रोक्तमथवा द्वादशांशकम्।
जन्म द्वयंशमंशकं पद्मं कम्पमर्धेन कारयेत् ॥ २० ॥
पञ्चांशे कण्ठमर्धेन क्षेपशं पद्मांशकम्।
तद(अन्य)र्धं पट्टिकोत्सेधं कम्पमर्धेन कारयेत् ॥ २१ ॥
अथवा भागमानेन सार्धांशं पादुकोदयम्।
तदूर्ध्वे तत्समा(मम)ब्जं कम्पमर्धेन कारयेत् ॥ २२ ॥
सार्धपञ्चांशकं ग्रीवं क्षेपशं सार्धभागिकम्।
तदूर्ध्वे पद्ममंशेन वाजनं चैकभागिकम् ॥ २३ ॥
तदूर्ध्वे सार्धकम्पं स्याद्योजयेत्तु विचक्षणः।
तदेवांशेन युग्मेन सोपानाम्बुजमेव वा ॥ २४ ॥
कम्पमर्धं तथा कार्यं तदूर्ध्वेऽशेन पट्टिका।
पञ्चांशा(शं) कन्धरं प्रोक्तं कम्पमर्धेन कारयेत् ॥ २५ ॥
ह्यंशं तद्वाजनेोत्तुङ्गं कम्पमर्धेन कारयेत्।
सर्वहर्म्येषु योग्यं स्याद्वेदिभद्रं चतुर्विधम् ॥ २६ ॥