Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s13.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s13.1
- Language
- English
v3.c24.s13.1
उपपीठविधिं वक्ष्ये शास्त्रे संक्षिप्यतेऽधुना ।
अधिष्ठानोन्नते देशे चोपपीठं हि संश्रितम् ॥ १ ॥
एते(तम्) तत्त्वमधिष्ठानं तुङ्गं तच्चतुरंशकम् ।
विभजेत्त्वादिमांशेन ए(चै)कैकांशं(श)विवर्धनात् ॥ २ ॥
तदष्टांशावसाने स्याज्जन्मादिपट्टिकान्ति(न्त)कम् ।
एवं हि चोपपीठोक्तं नवभिर्भेदमीरितम् ॥ ३ ॥
अथवा द्वादशान्तं वा मध्यभूम्यन्तिकं क्रमात् ।
अथवा क्षुद्रहर्म्ये तु चतुर्भागांशमु(गसमो)न्नतम् ॥ ४ ॥
द्विभागं वा त्रिभागं वा चतुर्भागमथापि वा ।
पञ्चा(ञ्च)दशोदयं वापि रिरिन्ति(शान्ति)कादिशरोन्नतम् ॥ ५ ॥
अथवा मध्यहर्म्ये तु द्विभागं वा त्रिभागिकम् ।
चतुर्भागं पञ्चभागं षड्भागावसानकम् ॥ ६ ॥
शान्तिकं सर्वभूम्य(कान्त्या)न्तं पञ्चधोत्तुङ्गमीरितम् ।
अथवा मुख्यहर्म्ये तु त्रयं वा चतुरंशकम् ॥ ७ ॥
पञ्चांशं वा षडंशं वा सप्तांशं वावसानकम् ।
एवं पञ्चविधं प्रोक्तं शान्तिकादिशरोन्नतम् ॥ ८ ॥
क्षुद्रोत्सेधं वापि पादाधिकमेव च(चार्धाधिकम्) ।
पादोनद्विगुणं वापि द्विगुणं वा(च) विशेषतः ॥ ९ ॥
मूलहर्म्यस्य पादं(दे) तु वप्रजन्म तु(नो) बाह्यतः ।
उपपीठनिर्गमं स्यादङ्गमानेन वक्ष्यते ॥ १० ॥
सप्ताष्टनवभागं वा दशमैकादशस्(शम्) तथा ।
द्वादशैकार्कभागं वा चतुर्दशांशकमेव वा ॥ ११ ॥
पञ्चा(ञ्च)दशांशकं वापि विभजेत्तु विशेषतः ।
तत्तद्भागैकमार्गं वा द्विभागं वा त्रिभागिकम् ॥ १२ ॥