Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.1

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.1

Language
English

v3.c24.s15.1

पादानापि सर्वेषां लक्षणं वक्ष्यतेऽधुना ।
आयामं च विशालं च आ(चा)र्यादि भूपणादिकम् ॥ १ ॥
दारुसंग्रहणं पादस्थापनं च यथाक्रमम् ।
जङ्गा च चरणं चैव स्थली स्तम्भमङ्घ्रिकम् ॥ २ ॥
स्थाणु स्थूणं च पादं च क(स्क)म्भभारणि भारकम् ।
धारणं द्वादशं नाम पर्यायोक्तं पुरातनैः ॥ ३ ॥
अधिष्ठानोपरिष्टात्तु चोत्तराधोऽवसानकम् ।
उपपीठोपरिष्टात्तु जन्मादौ चोत्तरान्तकम् ॥ ४ ॥
पादायामावसानं[तु] च अ(चा)धिष्ठानोदयेन च ।
द्विगुणं वा सपादार्थ पादोनद्विगुणं तु वा ॥ ५ ॥
द्विगुणान्ता (न्तम) ङ्घिकायामं हस्तमानवशो(शम्)च्यते ।
सार्धद्विहस्तमारभ्य षट्षडङ्गुलवर्धनात् ॥ ६ ॥
अष्टहस्तावसानं स्याच्चतुर्थांश (द्वादशम) ङ्घ्रितुङ्गत्वकम् ।
त्रिचतुष्पञ्चषण्मात्रं कुड्यस्तम्भवशालकम् ॥ ७ ॥
तत्तद्द्विगुणितं वापि त्रिगुणं वा चतुर्गुणम् ।
एतत्कम्प(स्कम्भ)विशालं स्यादथवा तुङ्गमानतः ॥ ८ ॥
आदित्यरुद्रपत्यं (क्त्यं) शरन्ध्रं चाष्टांशकं भवेत् ।
एकैकं पादविस्तारं तत्तत्पादोन्नममतः ॥ ६ ॥
एतत्पादविशालं स्यात्तथा (दा) कारमिहोच्यते ।
चतुरश्रं ब्रह्मकान्तं स्यादष्टाश्रं विष्णुकान्तकम् ॥ १० ॥
षोडशाश्रं तु वृत्तं वा रुद्रकान्तमिति स्मृतम् ।
पञ्चाश्रं शिवकान्तं स्यात्षडश्रं स्कन्दकान्तकम् ॥ ११ ॥
मूलादि चाग्रपर्यन्तमेवमाकारमीरितम् ।
एवमाकारपादानां मूले वेदाश्रमेव च ॥ १२ ॥