Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.2

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.2

Language
English

v3.c24.s15.2

मूलं मध्यं चाग्रं च चतुरश्रमथापि वा ।
भ्रमतारसमा(मस)ग्रे तत्कर्ण(कण्ठ)माना(नम)ग्रमन्तकम् ॥ १३ ॥
तत्समं मध्यमाश्रा(श्रा)न्तं मध्यमात्रं समाश्रकम् ।
मध्यमाग्रस्य द्वयोः पादमग्रा(ग्र)स्य च मा(समा)न्तकम् ॥ १४ ॥
शेषं तत्पादमूले तु चतुरश्राकृति न्यसेत् ।
चित्रकर्ण(ण्ठ)मिति प्रोक्तं तत्र(त्) सर्वालयं(ये) भवेत् ॥ १५ ॥
तन्मूले चासनं कुर्यात्पादुकं वा सहाम्बुजम्(नेन) ।
मूलाग्रे चित्रसंयुक्तमग्रान्ते मुकुलान्वितम् ॥ १६ ॥
तन्मूले पालिकाद्यं(का हि) स्याद्यथाशोभं तु कारयेत् ।
अन्तरे चित्रपट्टं स्यात्परितो ह्यङ्गुलेन च ॥ १७ ॥
पत्रादिरत्नपुष्पैश्च एतत्पट्टैश्च भूषितम् ।
मध्याग्रे पद्मपत्रादि ऊर्ध्वा(मूला)धोऽग्रं(ग्रे) तु कुङ्गलम् ॥ १८ ॥
मूलवच्चाममये तु चाध्राधः कुङ्गलान्वितम् ।
सर्वालङ्कारसंयुक्तं पद्माकान्तमिति स्मृतम् ॥ १६ ॥
मूले विनासनस्तम्भं चित्रक(स्क)न्धमुदीरितम् ।
अङ्घ्रिकायाममानेन बोधिकादीनि विन्यसेत् ॥ २० ॥
तत्तत्पादप्रदेशे तु तद्विशालेन मानयेत् ।
विस्तारं च(रस्य) समु(म्मु)त्सेधं त्रिपादं वार्थमेव वा ॥ २१ ॥
अथ पादांशकं चैव यन्मानोरम्यमानकम् ।
दण्डके बोधिका वापि पालिका वाथ चोन्नतम् ॥ २२ ॥
द्विदण्डं वा त्रिदण्डं वा चतुः(तुष्)पञ्चकमेव वा ।
एतदायामविस्तारमुन्नतस्य समं भवेत् ॥ २३ ॥
दण्डं सपापदण्डं वा बोधिकाविस्तृतं(तिः) भवेत् ।
एतद्(एक)दण्डं(ण्ड)समं वापि त्रिपादार्थंकमेव वा ॥ २४ ॥
एवं तु वीरकण्ठोचं विस्तारार्थं विशालकम् ।
फलकोच्चै(न्नमे)कदण्डं वा त्रिपादं वा तथोन्नतम् ॥ २५ ॥
द्विदण्डं वा त्रिदण्डं वा फलकायाममिष्यते ।
पादतारं चतुर्थांशं तत्समं निम्नकं भवेत् ॥ २६ ॥