Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.16
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.16
- Language
- English
v3.c24.s15.16
दारुसंग्रहणं वक्ष्ये पश्चाद्द्वारस्य लक्षणम् ।
दक्षिणायनकाले तु चोत्तरायणमे(णे ऽ)व वा ॥ १२४ ॥
माघादौ च चतुर्मासे कुर्याद्दारिश्च संग्रहम् ।
कृष्णपक्षे शुभदिने सुमुहूर्ते सुलग्नके ॥ १२५ ॥
दारुसंग्रहणं कुर्यात्स्थपतिः स्थापकैः सह ।
कुठारमट्ट(ट)खङ्गादीन्(दे) रक्षासूत्रेण बन्धनम् ॥ १२६ ॥
पीत्वा शुद्धं पयो रात्रावुपोष्याधिवसेद्बुधः ।
प्रभाते तु समुत्थाय कर्ता सानुचरैः सह ॥ १२७ ॥
वनप्रयाणमार्गे तु पश्येत्तु शकुनानि वै ।
संमुखे तु सुराभाण्डं मांसं वृषभं तु वा ॥ १२८ ॥
पूर्णकुम्भं गजं वेश्या(श्यां) द्विजानां सङ्घमेव च ।
दर्पणं पुष्पमालां च राजानं चक्र(च्छत्र)मेव च ॥ १२९ ॥
आन्दोलिका(कां) वह्नि पूर्णघटं च शिविरं तथा ।
वरध्वजध्वजं चैव कामधेनुं सुमङ्गलाम् ॥ १३० ॥
धनधान्यसमृद्धिं च दृष्ट्वा सर्वमेतच्छुभावहम् ।
मुक्तकेशं नासिहीनं तैलभाण्डं तथैव च ॥ १३१ ॥
एक(कं) द्विजं यतिं चैव कपालारक्तवाससान्(सः) ।
क्षयरोगं चा(गिनम)ङ्गहीनं नव्यङ्गगदिगं(खल्यङ्गादिकं) तथा ॥ १३२ ॥
मार्गे[तु] संमुखे दृष्ट्वा त्यमङ्गलमिति स्मृतम् ।
भारद्वाजं दिवाभीतं नर्तकं व्यानकं तथा ॥ १३३ ॥