Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.17
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.17
- Language
- English
v3.c24.s15.17
वरदासीसरं वामे शुभदं दक्षिणेऽशुभम् ।
वायसं च मयूरं च दीर्घपुच्छं तथैव च ॥ १३४ ॥
कृष्णपञ्चद्वयं चैव श्वेताक्षं कृकलासकम् ।
रक्तबोधं च फणिनं सारङ्गं व्याघ्रमेव च ॥ १३५ ॥
जम्बुकं च तथा वामं (माद्) दक्षिणे गमने शुभम् ।
दक्षिणां वामतो गच्छेदशुभं भवति ध्रुवम् ॥ १३६ ॥
अन्धकं शकुनं चैवारण्ये श्वेतलोचनम् ।
हरिणं च शशं चैव मार्गकीटं तथैव च ॥ १३७ ॥
बहुवर्णं च गृध्रं च रक्तश्वानं च सूकरम् ।
दक्षिणाद्वामगमनं मङ्गलं भवति ध्रुवम् ॥ १३८ ॥
वामतो दक्षिणे गच्छेदशुभं प्राप्यते ध्रुवम् ।
परिहा (प्रतिका) रं च वक्ष्यामि ग्रामसीम्नि शुभं तु चेत् ॥ १३६ ॥
स्थित्वा भुक्त्वा द्विजान् पश्चाद्दृष्ट्वा गच्छेत्ततः सुधीः ।
ग्रामसीमंस्तु परितो दुर्निमित्ते पशुं क्षिपेत् ॥ १४० ॥
विपिनस्य समीपे तु चोक्तान्येका (ता) नि सर्वशः ।
दक्षिणां वामतो गच्छेद्व्रामतो दक्षिणे तथा ॥ १४१ ॥
मध्ये तदिष्टकार्याणि मङ्गलं भवति ध्रुवम् ।
वनं संप्राप्य सुच्छायां सुशीतलवरं तथा ॥ १४२ ॥
दृष्ट्वा निर्ज्येयेते (निधीयेत) च्छायां (छायायां) शृणुयाच्छाकुनस्वरान् ।
व्यालं भारद्वाजं च श्वेताक्षिं च बृहत्खगम् ॥ १४३ ॥
सुस्वरं तु शुभं प्रोक्तं दुःस्वरेऽथ पशु (शुं) क्षिपेत् ।
काकस्वरं दक्षिणे श्रेष्ठं प्राचि चैव मध्यमम् ॥ १४४ ॥
प्राक् (तत्) स्वरं चाधमं प्रोक्तं तस्य तूत्तर [तः] स्वरम् ।
यदि श्रुतं चेत्तत्काष्ठे श्रोण्यजानि बलिं क्षिपेत् ॥ १४५ ॥
होमार्थं तत्र कुर्यात्प्रत्नं चोक्तवद्बुधः ।
असुरं राक्षसं चैव भूतपैशाचमेव च ॥ १४६ ॥
चरगं (गीं) पूतन (ना) विदारी (रीं) पापराक्षस (सी) मेव च ।
महांश्चाष्टगणाख्यानिन्द्रादीशामकान्तकम् ॥ १४७ ॥