Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.19
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.19
- Language
- English
v3.c24.s15.19
(श्रो) राक्षसैः सह भूतैश्च कर्तारं रक्षतं(त्रे) नमः ॥ १५२ ॥
पश्चात्तु स्थापकेनैव रक्षार्थं निक्षिपेद्वलिम् ।
कुर्याद्धोमं स्थापकस्तु पूजयित्वा वनदेवताः ॥ १५३ ॥
प्रोक्षयेत्परशुं तत्र प्राङ्मुखोत्तरेऽपि वा ।
परशुं तक्षकं श्रेष्ठं स्थपतिः स्थापककरात् ॥ १५४ ॥
स्वीकृय दारु विच्छिद्य चान्यैरनुचरैः सह ।
स्थूलमूलं कृशाग्रं च नि(निः) शृङ्गं स्निग्धरूपकम् ॥ १५५ ॥
जन(अन्तः) शाखासंकीर्णं [च] छत्रवन्निऋथं यदि ।
सुशीतलं तु सुच्छायं छायावृक्षमिति स्मृतम् ॥ १५६ ॥
वृक्षस्य मूलमध्ये तु वृक्षाग्रे समनाहकम् ।
निःशाखः स पुमान्प्रोक्तं स्निग्धरूपं च शीतलम् ॥ १५७ ॥
अग्रस्थूलं कृशे(शं) मूले नानाविटपशाख(खा)युक्तं ।
दुर्भरं भिन्नसुषिरं चोष्णं विवृतशाखकम् ॥ १५८ ॥
दृष्टान्तं मनुजा(ज)योग्यं छायायामं(वन्तं) नपुंसकम् ।
स्त्रीपुमान्नपुंसकश्लेषः सुमुहूर्ते सुलग्नके ॥ १५६ ॥
वृक्षच्छेदनकाले तु उ(चो)त्पद्य न पतेद्यदि ।
पतन्ति चोत्तरे वा प्राग्दिग्भागे न चामङ्गलम् ॥ १६० ॥