Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.20
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.20
- Language
- English
v3.c24.s15.20
याम्ये वा पश्चिमे वापि देशे [नि]पतन्ति मङ्गलम् ।
ईशं(शे) नैऋ(र्ऋ)तिकोणे वा सर्वसंपत्करं भवेन् ॥ १६१ ॥
अनलानिलकोणे वा चान्यथा चान्तरालके ।
उद्गतमिति तत्र स्यात्सकलानांलयमङ्गलम् ॥ १६२ ॥
छिन्नवृक्षस्य पतने वृषभं(भ)ह्यवकृञ्जरम् (राख्याम्) ।
निन(ना)दं भवति श्रेष्ठं बाह्यत्वा(ता)ने त्वमङ्गलम् ॥ १६३ ॥
समीपे(प)स्थितवृक्षा(क्षां)श्च हत्वा यदि पतेत्तरुः ।
अशुभं तत्समुद्दिष्टो(ष्टं) पतन्ति मनुजोपरि ॥ १६४ ॥
पूर्वे वा चोत्तरे वापि वृक्षास्तत्र पतन्ति चेत् ।
तत्रादे(दै) त्यकर्म नास्ति चान्ये(न्य)दिक्षु त्वमङ्गलम् ॥ १६५ ॥
सर्वदोषं समुद्दिश्य शान्ति कुर्याद्विचक्षणः ।
पशुप्रहारहोमं च ब्राह्मणान्भोजयेत्ततः ॥ १६६ ॥
एवं शान्तौ कृतायां तु दोषं नश्यति नान्यथा ।
नराणां मरणं स्याच्चेत्तत्त[त्] शान्तिर्न विद्यते ॥ १६७ ॥
तस्मात्परिहरेद्विद्वान् कुर्याद्दारु (रोश्च) संग्रहम् ।
शयनस्थितदारूणि स्थूणि(ल)कीलादिकं सर्वशः ॥ १६८ ॥
भूमौ पदं [स्थाप्य] नितम्ब (नतच्च)क्रमिति विरचितम् ।
स्थितः(त)शयनदारूणि रथमारोपयेत्तदा ॥ १६९ ॥
नववस्त्रेण संवेष्ट्य सर्वमङ्गलघोषषैः ।
अनड्वाहै। वाहयित्वा महिषं कुञ्जरं तु वा ॥ १७० ॥
कर्षयेत्तु नरैर्वापि सुमुहूर्ते सुलग्नके ।
शिल्पशालां प्रवेश्याथ रथात्तदवतारयेत् ॥ १७१ ॥
दारुसंग्रहणं प्रोक्तं दारुलक्षणमुच्यते ।
धूसकं चोरगां(रिणी) चैव खादिरं खदिरं तथा ॥ १७२ ॥
शाकं च निम्बवृक्षं च शमी शास्तं तथा मृगम् ।
एतेषु धारणं वृत्तं रा(शा)तवृक्षमिहोच्यते ॥ १७३ ॥
फत(खदि)रं कृतमालं च व्याघ्रकारलशदना मृगम् ।
द्राक्षा शाखा च रुद्राक्षि जम्बूके शयितेष्वपि ॥ १७४ ॥