Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.23
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.23
- Language
- English
v3.c24.s15.23
देवालयादिसर्वेषां स्तम्भस्थापनमुच्यते ॥ १७९ ॥
यथाभागावसाने तु स्थापयेदखिलाङ्घ्रिकम् ।
स्तम्भान्ते स्तम्भयुक्तं चेद्वास्तुवस्तु विनाशनम् ॥ १८० ॥ 364
यद्वास्त्वन्तर्बहिः सूत्रं स्थापयेदृजुसूत्रकम् ।
स्तम्भमध्यात्तु बाह्यान्तं यथापादं तथाश्रयम् ॥ १८१ ॥
यत्रदेश (शे) विशालाधं तत्र दोषो न विद्यते ।
पुष्य (ष्यं) मार्गं च चैत्रं च वैशाखं चोत्तरायणे ॥ १८२ ॥ 368
आषाढं श्रावणाश्वी च कार्तिकं दक्षिणेऽयने ।
सुमुहूर्ते सुलग्ने च शुक्लपक्षे शुभदिने ॥ १८३ ॥
स्तम्भमावाहनं कुर्याच्छ्रेष्ठमासे च(चा) भावके ।
अङ्कुरार्पणकर्मादौ स्थापनान्तं यथाक्रमम् ॥ १८४ ॥ 372
जलाधिवासने स्नानं कुर्याच्चपि सर्वशः ।
ईशाने नैऋतिकोणे तु मध्ये चाङ्घ्रिकमेव च ॥ १८५ ॥
पादस्थानस्य यद्देशे वस्तुन (स्तो) श्व बलं यथा ।
तदूर्ध्वं धारपट्टं स्याद्दण्डाध्यक्षं द्विदण्डकम् ॥ १८६ ॥ 376
घनं च विस्तृतं चैव चायामं तद्यवेष्टकम् ।
शिलास्तम्भे शिलाधारं दारुस्तम्भे द्रुमस्(सं) तथा ॥ १८७ ॥