Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.24

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.24

Language
English

v3.c24.s15.24

अथवा चारमनं सर्वमाधारं चतुरश्रकम् ।
एकहस्तं द्विहस्तं वा त्रिहस्तं विपुलं भवेत् ॥ १६८ ॥ 380
आधारस्य तु मध्ये स्याद्ब्रह्मस्थापनतोऽवटम् ।
प्रासादाभिमुखे चैव मण्डपं परिकल्पयेत् ॥ १८६ ॥
मण्डपान्तं प्रदेशे तु स्तम्भं सम्प्राह्य वेशयेत् ।
स्थण्डिले चण्डितं कृत्वा बीजं व्रीह्यादि विन्यसेत् ॥ १६० ॥ 384
तत्र स्तम्भं च विन्यस्य पूर्वं वाप्युद्गमक्रमम् ।
नववस्त्रेण संवेष्ट्य कुम्भं कुर्यादभिभूषणम् ॥ १६१ ॥
कर्पटं तु शिरीषादिधान्यं कार्पासबीजकम् ।
सूत्रेण बध्वा पश्चात्तु स्तम्भकूर्चे च बन्धनम् ॥ १६२ ॥ 388
तदग्रे स्थण्डिलं कृत्वा शुद्धशालै(लिभि) श्च लाजकैः ।
दर्भैरास्तीर्य तत्रैव प्रागुदक् स्यात्तदग्रकम् ॥ १६३ ॥
पीठं वा चोपपीठं वा चोक्तवत्पद(दं) कल्पयेत् ।
जलसंपूर्णकुम्भादि तत्र चावाहयेद्बुधः ॥ १६४ ॥ 392
सूत्रपल्लवकूर्चाद्यान(दींश्च) नववस्त्रेण वेष्टयेत् ।
तदग्रे स्थण्डिलं कृत्वा रत्नव्रीह्यादि चावहेत् ॥ १६५ ॥
पादप्रक्षालनं कुर्यादाचम्य स्थपतिर्बुधः ।
भस्मं वा चन्दनं वापि धारयेत्तु त्रिपुण्ड्रकम् ॥ १६६ ॥ 396
सकलीकरणं कृत्वा पुण्याहं वाचयेत्ततः ।
ब्रह्मादिदेवताः सर्वाः पादस्थाने समर्चयेत् ॥ १६७ ॥
हस्तेस्वामव्यकुम्भान्तं पूजयेत्तु विशेषतः ।
देव्याव[क] र्णं सर्वेषां परितः कलशोदकै ॥ १६८ ॥ 400
आवाह्य पश्चादभ्यर्च्य गन्धपुष्पाक्षतादिभिः ।
रत्नाधिवासनं कुर्यात्तत्तद्देवत(स्य) नामभिः ॥ १६६ ॥
गन्धपुष्पादिधूपैश्च नैवेद्यान्तं समर्चयेत् ।
तदग्रे पूर्वदिग्देशे होमं कुर्याद्विचक्षणः ॥ २०० ॥ 404
पश्चात्तु शिल्पी संप्राप्य संस्पृशेत्स्तम्भमूलकम् ।
गैरिकापिंक्तसूत्रेण्च चतुःसूत्राणि विन्यसेत् ॥ २०१ ॥