Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.25
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.25
- Language
- English
v3.c24.s15.25
स्वर्गोसूर्व(च) सदर्भाशू(भीं) च घृतक्षीरेण योजयेत् ।
धूपदीपं ददे(द्या)त् पश्चाद्गन्धपुष्पैः समर्चयेत् ॥ २०२ ॥
हिमादिरूपं तत्स्तम्भं ध्यात्वा हस्तेन संस्पृशेत् ।
ततोऽधिवासनं कुर्यात्स्तम्भं सद्दैशिकोत्तमः ॥ २०३ ॥
पश्चात्सकमुख्याैस्तु स्तम्भमुद्धृत्य हस्ततः ।
वास्तुप्रदक्षिणं कुर्यात्स्वकीयानुचरैः सह ॥ २०४ ॥
सर्वमङ्गलघोषैश्च सम्भस्थापनदेशकम् ।
संप्राप्य हस्ततः स्तम्भमवरोह्य च पश्चिमे ॥ २०५ ॥
तत्स्तम्भं पूर्ववदनं(नमा) धारं प्रोक्ष्य संस्थितम् ।
अधिवासितरत्नानि व्याहृत्यावटतः क्षिपेत् ॥ २०६ ॥
मध्ये तु हेमं(म) निक्षिप्य चैन्द्रे ताम्रं विनिक्षिपेत् ।
याम्ये तु चायसं स्थाप्य कांस्यं वा वारुणे न्यसेत् ॥ २०७ ॥
सौम्ये तु रजतं स्थाप्य पुष्प (पद्म) रागं तु मध्यमे ।
पुष्परागमिन्र्द्रकोष्ठे गोमेदं चाग्निकोष्ठके ॥ २०८ ॥
महानीलं च याम्ये तु मरकतं नैऋते न्यसेत् ।
स्फटिकं वारुणे(ण) कोष्ठे तु प्रवालं वायुकोष्ठके ॥ २०६ ॥
सौम्ये तु मौक्तिकं न्यस्य चेन्द्रनीलं तथैशके ।
तत्स्तम्भं तत्र निक्षिप्य स्थपतिः कर्तृभिः सह ॥ २१० ॥
सर्वमङ्गलघोषैश्च ब्राह्मणैः स्वस्तिवाचनम् ।
अधिवासितकुम्भानि सर्वाण्यादाय शिल्पकः ॥ २११ ॥
वास्तुप्रदक्षिणं कृत्वा स्तम्भं मन्त्राभिषेचयेत् ।
धूपदीपं दधेत(द्यात्) पश्चाद्वस्त्रमाल्यैर्विभूषितम् ॥ २१२ ॥
गन्धपुष्पैः समभ्यर्च्य नैवेद्यं च निवेदयेत् ।