Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.7

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.7

Language
English

v3.c24.s15.7

ललाटे चित्र(त्रं) भागैकमधो मूर्ध्नि विशालकम् ।
तस्योर्ध्वे कर्ण(ण्ठ)भागेन कर्णकम्पाब्जवाजनम् ॥ ८३ ॥
पत्रवल्यादिरत्रैश्च पत्रचित्राभिभूषितम् ।
सर्वालङ्कारसंयुक्तं पुष्पबोध(धि)कमीरितम् ॥ ८४ ॥
उपपीठवदाकारं दण्डकादीनि विन्यसेत् ।
क्षुद्रकम्पं च (म्यैश्च) पत्त्रैश्च पुष्परत्नैश्च भूषितम् ॥ ८५ ॥
तरङ्गा(ङ्गं) दण्डका (का) चैव बोधिकादीनि पालिका ।
एकवक्त्रं द्विवक्त्रं वा त्रिवक्त्रं चतुराननम् ॥ ८६ ॥
पञ्चषट् सप्ताष्टं वा यथा शक्तिवशान्यसेत् ।
तस्याधो वीरकर्णे(ण्ठे) तु फलका बोधिकान्तरम् ॥ ८७ ॥
आधारार्थं तु शोभार्थं सिंहचित्रादिमण्डितम् ।
वीरकर्ण(ण्ठ)स्योदयं ज्ञात्वा नवभाग (गे) विभाजिते ॥ ८८ ॥
एकांशं पादुकं कुर्यात्पञ्चभागं तु संग्रहम् ।
तदूर्ध्वे क(हा)रिकांसं(कमंशं) स्यादब्जमंत्रेन कारयेत् ॥ ८९ ॥
तदूर्ध्वे वाजनं चांशं संग्रहं च द्विवक्रयुक् ।
पद्माद्याकृतिरमादीन् रेखा मूलवती न्यसेत् ॥ ६० ॥
रत्नवल्यादि[ना] संभूष्य शेषं युक्त्या प्रयोजयेत् ।
संग्रहं (ह) रूपमित्युक्तं वीरकर्णे(ण्ठे) पुरान्वितम् ॥ ६१ ॥
पद(दा)ङ्गाङ्कदनं कृत्वा पश्चादुद्धृत्यहस्तवत् ।
तदेव सिंहादिरूपैर्वा नाटकाद्यैरुलङ्कृतम् ॥ ६२ ॥
एतत्तु मुष्टिबन्धं स्यात्फलकोक्तं त्रिभागिकम् ।
एकांशो (शमु) त्सन्धितुङ्गं स्यात्तदधो क्षेपणां(खमं)शकम् ॥ ६३ ॥
तदधोऽब्जां(ब्जमं)शं पद्मं च द्व्यंशेनाब्जमथापि वा ।
कुम्भोशं चाष्टभागेन चांशेन पद्माकम्पकम् ॥ ६४ ॥
कुम्भाधो (धश) चोर्ध्वदेशे तु वटपत्रादिशोभितम् ।
निम्नं च ताटिकादीनि युक्त्या प्रागुक्तवन्नयेत् ॥ ६५ ॥
कुम्भस्तम्भप्रतिस्तम्भे कोष्ठकादीनि का (चा) म्भिके ।
कुम्भस्तम्भानि सर्वेषामेवमुक्तं पुरातनैः ॥ ६६ ॥