Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.6

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s15.6

Language
English

v3.c24.s15.6

तदूर्ध्वं तोरणान्तं स्यादेकदण्डं तु विस्तरः ।
मकरीवक्त्रसंयुक्तं सर्वालङ्कारशोभितम् ॥ ६९ ॥
कोष्ठं(ष्ठस्य)च पार्श्वयोश्चैव क्षुद्रपादसमन्वितम् ।
मूलपादविशालं स्यात्त्रिपाद(दं) क्षुद्राङ्घितारकम् ॥ ७० ॥ 140
तस्यपादविशालेन पादभूष्या(षां) मानयेत् ।
फलकान्तकार्धं च वीरकण्ठै(ण्ठमे)कदण्डकम् ॥ ७१ ॥
बोधिकादि(दिं) विनायुक्तं फलकादिक्रिया(यां) न्यसेत् ।
फलकायाम(मं) द्विदण्डं चाप्यर्धदण्डकं तत्कुर्मविस्तृतम् ॥ ७२ ॥ 144
वाटिवक्त्रं सपादं स्यात्तुङ्गं प्रागुक्तवन्नयेत् ।
सर्वालङ्कारसंयुक्तं युक्त्या तत्रैव योजयेत् ॥ ७३ ॥
बोधिकान्तं ललाटे च स्यादुत्सेधं चोर्ध्वं वाजनम् ।
तद्वाजनं तु पादान्तं पार्श्वयोस्तन्मुखाश्रुतम् ॥ ७४ ॥ 148
अधोभागे त्रिभागैकं मध्यभद्राकृति न्यसेत् ।
तद्वि(द्वि)पार्श्वे तु चैकैकं कर्तृ(ण्ठ)च्छेदम(न)मिष्यते ॥ ७५ ॥
पार्श्वयोर्वाजनस्याधो वक्रं वक्राकृति तथा ।
ऊर्ध्ववाजन(नं) तद्युक्त्या कुर्यात्क्षुद्रादि वाजनम् ॥ ७६ ॥ 152
पार्श्वयोः स्तम्भ[स्त]स्योर्ध्वे मध्यभद्रादिभूषितम् ।
द्वाभ्यां तत्कर्ण(ण्ठ)दण्डान्तं मध्ये पार्श्वे च निम्नकम् ॥ ७७ ॥
बोधिके च तरङ्गं स्यात्सर्वालङ्कारसंयुतम् ।
तदेव तुङ्गमाने तु द्वादशांशे विभाजिते ॥ ७८ ॥ 156
अधोभागे त्रिभागेन तरङ्गाकृति विन्यसेत् ।
तदूर्ध्वे बोधिकोत्सेधं षडंशेन विशेषतः ॥ ७९ ॥
प्रफुल्लानन(नं) सर्वं(र्वा)मं पुष्पसंप(पद्म)वदाननम् ।
एतदूर्ध्वे शिरस्यो(स ऊ)र्ध्वे चांशेन हरिता(हारिका) भवेत् ॥ ८० ॥ 160
एकदण्ड(ण्डं) त्रिपादं वा वाजमान्तं शिर उन्नतम् ।
तस्मात्तदायते दीर्घे निर्गमस्यम(चा)धोमुखम् ॥ ८१ ॥
कन्द(द)लीतूनदण्डाभमग्रिमूर्ध्वं निरोपमम् ।
अग्रे समग्रलं चैव तरङ्गं तत्समाधिकम् ॥ ८२ ॥ 164