Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s16.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s16.1
- Language
- English
v3.c24.s16.1
प्रस्तरस्य विधिं वक्ष्ये शास्त्रे संचित्यतेऽधुना ।
अधिष्ठानत्रिपादं वा समं वा पादमधिकम् ॥ १ ॥
अर्धत्रिपादमाधिक्यं तत्समाधिकमेव वा ।
षड्विधं कुट्टिमोत्तुङ्गं प्रस्तरोदयमीरितम् ॥ २ ॥
अथवा हस्तमानेन देवजातिवशो(शादु)च्यते ।
सप्तहस्तं समारभ्य सार्धवेदकरान्तकम् ॥ ३ ॥
अष्टांलिकहान्येन षड्विधं प्रस्तरोदयम् ।
देवानां भूसुराणां च भूपतीनां(ति)युवराजयोः ॥ ४ ॥
वैश्यानां शूद्रजातीनां सप्ता(ष्टानि) जातिवशात्क्रमात् ।
अथवा पादतुङ्गार्धं तत्समं वा विशेषतः ॥ ५ ॥
चतुर्भागैकहीनं वा तत्पादाधिकमेव च ।
अर्धाधिकं त्रिपादं वा तत्समाधिकमेव वा ॥ ६ ॥
एतत्तु षड्विधं प्रोक्तं युक्त्या तत्प्रस्तरोदयम् ।
अथवा पादोदये चाष्टभागं कुर्याद्विचक्षणः ॥ ७ ॥
सप्तषट्पञ्चभागाधित्रिभागद्धांशमेव च ।
एवं तु षड्विधं प्रोक्तं प्रस्तरोधं मुनीश्वरैः ॥ ८ ॥
उत्तरादिप्रदेशान्तं सर्वेषां प्रस्तरोदयम् ।
कपोतं प्रस्तरं चैव मञ्चं प्रच्छादनं तथा ॥ ९ ॥
गोपाने च वितानं च वलभी मत्तवारणम् ।
विधानं च लुपं चैवमेते पर्यायवाचकाः ॥ १० ॥
प्रस्तरोत्सेध सर्वेषामङ्गैः सर्वमिहोच्यते ।
उत्सेधं चैकत्रिंशं तु भागं कुर्याद्विचक्षणः ॥ ११ ॥
चोत्तरं सार्धवेष्टांशमंशं तद्वाजनं भवेत् ।
वलभो(भ्यु)त्सेधं बन्ध्यंशं सार्धांशं वाजनं भवेत् ॥ १२ ॥