Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s16.2
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s16.2
- Language
- English
v3.c24.s16.2
उत्तरोष्ठं त्रयांशं वा वाजने चैकभागिकम् ।
तत्समं क्षुद्रपद्मं स्याद्वयं चोर्ध्वं महाम्बुजं ॥ १३ ॥
तदूर्ध्वे वाजनं चैकं धातुभागं कपोतकम् ।
आलिङ्ग्यमंशकं चैवमेकार्धमन्तरितं तथा ॥ १४ ॥
द्व्यंशकं प्रस्तरं चैव सार्धांशं वाजने भवेत् ।
उत्तरार्धं (र्ध्वं) चतुष्पञ्चषट्सप्ताष्टकं भवेत् ॥ १५ ॥
तत्तदेकांशमानेन हर्म्यपादं तु बाह्यकं ।
यन्मानोरस्यमानेन चोत्तरं (र) निर्गमं भवेत् ॥ १६ ॥
उत्तराद्वाजनं चैव तत्समं निर्गमं भवेत् ।
वलभी [तत्]समं वापि त्रिपादं निर्गमं भवेत् ॥ १७ ॥
तदूर्ध्वे वाजनं युक्त्या तच्चतुर्थांश (शं) निर्गमम् ।
कपोत तत्समं वापि वाजनं (निर्गमं) तु बहिर्भवेत् ॥ १८ ॥
अथ त्रिपादमर्धं वा पादं वा निर्गमं न्यसेत् ।
आलिङ्गपादबाह्यस्य निम्न (र्ग) मेवं तु कारयेत् ॥ १९ ॥
तस्मादन्तरितं चोर्ध्वं तत्समं निर्गमं तु वा ।
त्रिपादं चार्थमेवं वा प्रति(ति) तत्समं (म) निर्गमम् ॥ २० ॥
ऊर्ध्वं वाजनमुखे तु निर्गमं पादवाह्यतः ।
प्रतिं च प्रस्तरं चैव प्रतिवाजनमेव च ॥ २१ ॥
अन्यन्तं चावसानं च विधानं च विधानकम् ।
एतत्सर्वमिति प्रोक्तं पर्यायाख्यानि पण्डितैः ॥ २२ ॥
प्रतिरूपं दलाकारं वाजनं च द्वयंशिकम् ।
वाजनं शेपगां वेत्रं पट्टमुत्तर (रं) पट्टिका ॥ २३ ॥
कम्पं दृकं (त्रिकं) च मन्दादि चान्तरितं पर्यायमेव च ।
तुलादण्डं जयन्ती [च] फलका पर्यायवाचकम् ॥ २४ ॥
कपोतं वक्रहस्तं च लुपा गोपानकं तथा ।
चन्द्रमेतत्सु सर्वोक्ति (वं) प्रोक्तं पर्यायवाचकाः (कम्) ॥ २५ ॥
संप्रहं मुष्टिबन्धं च मद्गलो (लमु) द्धृतहस्तकम् ।
वलभी धारणं चैवमेते पर्यायवाचकाः ॥ २६ ॥