Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s16.7
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s16.7
- Language
- English
v3.c24.s16.7
पूर्वोक्तप्रस्तराङ्गैश्च यन्मानोरस्यवर्गकम् ।
आधारस्योपरि प्रान्ते कुर्यात्तु शिल्पि(ल्प)वित्तमः ॥ ८३ ॥
ऊर्ध्वं प्रच्छादनं कुर्यादथवाधारचो(स्यो)र्ध्वके ।
एतत्प्रच्छादनं कुर्यात्पूर्वेवत्समलङ्कृतम् ॥ ८४ ॥
एवं तु चोर्ध्वालङ्कारं मध्यरङ्गे तु विन्यसेत् ।
तत्तुल्यं पूर्ववत्कुर्याच्छ्लेषं युक्त्या प्रयोजयेत् ॥ ८५ ॥
तद्बहिः प्रान्तभक्तीनां प्रच्छादनमिहोच्यते ।
प्रागुक्तमूलपादानां स्तम्भे च प्रतिपादके ॥ ८६ ॥
तदूर्ध्वं चोत्तरं न्यस्य(सेद्) वाजनं मुष्टिबन्धनम् ।
मञ्चाल(लं) वाजनं वापि चोत्तरादि यथोर्ध्वके ॥ ८७ ॥
कुर्यात्तु तस्य चोर्ध्वे तु दण्डैस्तत्क्षोभिकां न्यसेत् ।
त्रिचतुष्पञ्चषण्मात्रं दण्डान्तरविशालकम् ॥ ८८ ॥
तत्तद्द्विगुणदण्डं स्याद्युक्त्या बलवशान्यसेत् ।
चतुरश्रं चतुः(तुष्)पट्टं तुलानामाकृतिस्तथा ॥ ८९ ॥
पत्रवल्यादियुक्तं वा यथाशोभं तु कारयेत् ।
तदूर्ध्वे जयन्तिकं स्यादन्तराले तु विन्यसेत् ॥ ६० ॥
अथवा चोत्तरा सर्वे(र्वा) सान्तःप्रान्तरोत्त(रान्त)रम् ।
यत्तच्छक्तिविशालत्त्वं प्रस्तरं स्यात्तदन्तरम् ॥ ६१ ॥
बाह्यरूं चोत्तरं सर्वं युक्त्या काष्ठवशान्यसेत् ।
तस्यान्तः पादमध्यान्तः प्रस्तीर्यात्तु यथोत्तरम् ॥ ६२ ॥
एतत्तु सर्वतोभद्रमल्लचाकृतिरिहोच्यते ।
तदेव कर्णवशाद्दृशं प्रस्तीर्यात्तु सर्वशः ॥ ६३ ॥
उत्तरैः प्रागुक्ताङ्घ्रिः स्यात्तद्रुशालपरितो न्यसेत् ।
तदेवान्तमलक्षं च कर्णयोश्चोत्तरं विना ॥ ६४ ॥
इन्द्रादियाम्यपर्यन्तं याम्यादिवरुयान्तकम् ।
वरुणात्सौम्यपर्यन्तं सौम्यादिपूर्वकान्तकम् ॥ ६५ ॥
बाह्यान्तरान्तरं च युक्त्या वंशे तु योजयेत् ।
शेषं प्रागुक्तवत्तुल्ये(त्कुर्याद्) बहिस्तदृशान्यसेत् ॥ ६६ ॥