Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s16.6

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s16.6

Language
English

v3.c24.s16.6

एकपट्टं द्विपट्टं वा त्रिपट्टो(ट्टमू)ध्वं तथोच्चयेत् ।
तन्मध्ये फलकं वापि शिला तैला(लि)जया(य)न्तिकम् ॥ ६६ ॥
लुपाकारं तु [पूर्व]वत्कुर्याद्दलस्याकृतिः(तिम्) एव वा ।
एवं गेहे प्रोक्तं मम दृष्टमर्थं तु कारयेत् ॥ ७० ॥
कुर्याद्दिशि तुलां वापि पट्टस्योपरितस्तु वा ।
तन्मध्ये(ध्य) देश(शे) दारुखा[च] दण्डं कृत्वा प्रयोजयेत् ॥ ७१ ॥
एतत्प्रच्छादनं गेहे प्रोक्तं मम(ह्यं) मुनीश्वरैः ।
अन्य[द्व]वास्तुनि(स्तूनां) सर्वेषां प्रच्छादनमिहोच्यते ॥ ७२ ॥
मध्ये प्रागुक्तवत्कुर्यात्तदूर्ध्वं प्रस्तरमेव च ।
बाह्ये प्रागुक्तवत्सङ्गं प्रस्तरं तु यथोचयम् ॥ ७३ ॥
कुर्यादधःप्रदेशे स्यान्मध्ये वृत्तमुत्तरोपरि ।
महाभारं तुलां वापि क्षुद्रदण्डमथापि वा ॥ ७४ ॥
आधारपट्टसंयुक्तं सतुलां तु जयन्तिकम् ।
प्रस्तरावृतमध्योध्वं तुला(ल)या छादयेत्ततः ॥ ७५ ॥
तद्दिधानस्य(स्या)धोदेशे क्षुद्रपट्टैर्म(र्नै) लक्षकम् ।
अथवा चतुरश्रैश्च कुर्यात्तत्र विशेषतः ॥ ७६ ॥
तत्र पट्टैश्चतुष्कानां सन्धिर्मध्ये तु कुर्या(ङ्क)लम् ।
पादेषु फुल्लपद्मं च कुर्याद्युक्त्या च शोभितम् ॥ ७७ ॥
मध्यरङ्गं तदुद्दिश्य चोध्वैऽलङ्कार (रं) वक्ष्यते ।
उत्तरस्याधोदेशे तु पूर्वोक्तचरखामके ॥ ७८ ॥
बोधिकाकृति(तिं) विज्ञात्वा (य) स्तम्भस्यार्धप्रदेशतः ।
पीनकचोपरि प्रान्ते पालिकाकृति(तिं) विन्यसेत् ॥ ७६ ॥
तदूर्ध्वं नाटकाङ्घ्रेश्च पालिका द्विगुणोन्नतम्(ता) ।
तदूर्ध्वं मृणालिकोत्तुङ्गं नाटकोन्नत [तत्] समम् ॥ ८० ॥
महाबोधिसंयुक्तं मृणालोपरि विन्यसेत् ।
तन्महाबोधिकाचो(को) चैं [च] महातौलिं न्यसेद्बुधः ॥ ८१ ॥
बोधिका (या) पूर्ववत्तुङ्गं तत्समं तौलिकोन्नतम् ।
महातौलि विना कुर्यादाधारार्थ(र्धं) तु पट्टिका ॥ ८२ ॥