Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s17.1
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s17.1
- Language
- English
v3.c24.s17.1
सन्धिकर्मविधाने च लक्षणं वक्ष्यतेऽधुना ।
हर्म्याणां दारुसंयोगं (गः) सन्धिकर्ममु(र्मे ड)दीरितम् ॥ १ ॥
वृक्षमूले बलं युक्तं वृक्षाग्रे बलहीनकम् ।
तस्मात्तु बन्धयेत्सर्वं दारुसंमूलात्सु(लतः सु)धीः ॥ २ ॥
उक्तवद्दारु संगृह्य योजयेत्त(न्यं द्वि त)द्यंत्रेण तु ।
न वक्रं च न भिन्नं च न सुषिरं दारु सर्वशः ॥ ३ ॥
मल्लसंबद्ध(न्ध)सन्धिं च ब्रह्मराज (जं) द्वयं तथा ।
वेणुपूर्वाल्यसन्धिं च पूगपर्वं च सन्धिकम् ॥ ४ ॥
देवसन्धिसतथैिमे(र्षी)पुपर्वसन्धिं(न्धौ च) दण्ड(ण्डि)कम् ।
एतद(ते चा)ष्टविधं (धाः) प्रोक्तं(क्ता) दारुयोगेन सन्धिभिः(न्धयः) ॥ ५ ॥
दारुद्वयै(र्येनै)कसन्धिः स्यान्मल्ल बन्धमिति स्मृतम् ।
त्रिचतुर्दारुयोगेन द्वित्रिसन्धियथाक्रमम् ॥ ६ ॥
ब्रह्मराजमिति प्रोक्तं तन्त्रविद्भिः पुरातनैः ।
पञ्चदारु चतुःसन्धि(न्धिर) वेणुपर्वकमीरितम् ॥ ७ ॥
षड्दारु पञ्चसन्धिः स्यात्पूगपर्वं प्रशस्यते ।
सप्तदारुभिः षट्सन्धि(न्धिः) [स्याद्] देवसन्धिमि (रि)ति स्मृतम् ॥ ८ ॥
अष्टदारु [भिर्] ऋषिसन्धिमं(न्धिरि)पुपर्वाल्यसन्ध्रिकम् ।
तस्योपरि बहुसन्धि(न्धिः) बहुद्रव्यैश्च दण्डिकम् ॥ ६ ॥
पादानामुत्तराणां च कुड्यस्योत्तरदारुणाम् ।
सन्धिकर्मक्रमं सम्यगेक [क] वस्तुन्य (ह्या) नैककम् ॥ १० ॥
अन्तर्बहिश्च यत्त्वो(यामू)र्ध्वं तत्तत्सन्धिमि (रि)होच्यते ।
मल्लवन्धादि स्यादृष्टसन्धिः सर्वेषु धामसु ॥ ११ ॥
दीर्घं ह्रस्वं समं दारु योजयेदुक्तवत्क्रमात् ।
पुंदारुणां तु पुंदा 'न (रुणा) स्त्रीदारुं (रुं) स्त्रिया सह ॥ १२ ॥
युञ्जीत या(यत्) स्त्रिया सार्धं पुंदारु पतिना सह ।
नपुंसकं न युञ्जीत स्र्वेध्वपि गृहादिषु ॥ १३ ॥