Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s17.2
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s17.2
- Language
- English
v3.c24.s17.2
चतुर्दिक्षु वहिद्वारं र(चा) नन्तं प्रेक्ष्य संस्थितम् ।
ज्ञात्वा धीमान्मुहुर्देवान् (श्लिङ्गान्) दिनयेद्वा (नीत्वा च वा) मदक्षिणम् ॥ १४ ॥ 28
अन्तश्चतुर्दिशां दारु बहिः पश्येत् तन्मुखम् ।
ज्ञात्वा तु शिल्पिनां श्रेष्ठं (ष्ठो) दिव्यं दक्षिणवामकम् ॥ १५ ॥
दीर्घादिसर्वदारूणि (णां) विन्यासं वक्ष्यतेऽधुना ।
दक्षिणे विन्यसेद्दीर्घ कुब्जदारु तु दक्षिणे ॥ १६ ॥ 32
अथवा मध्यमे दीर्घं वाम (मा) वामे तु कुब्जकम् ।
त्रिदारुयोगसंपाते सममेतत्स्वधापि वा ॥ १७ ॥
दक्षिणां (शे) मध्यमं (मे) दीर्घं वामे दारु त्वदीर्घकम् ।
दारुमूलं तथाग्रं च संयोगं दारुसर्वशः ॥ १८ ॥ 36
दक्षिणोत्तरसायामं दारुमूलं च दक्षिणे ।
पूर्वपश्चिमयोर्दीर्घ दारुमूलं च पश्चिमे ॥ १९ ॥
प्रत्यग्दक्षिणयोर्दारु मूलसंयोग (गं) नैर्ऋते ।
पूर्वे चोत्तरतो दारु अग्रं (चाग्र) संयोगमीशके ॥ २० ॥ 40
अनलानिलकोणे तु चाग्रमूलं तु योजयेत् ।
कन्योत्तरं तु संयोगं मूलं तच्च षडश्रकम् ॥ २१ ॥
अज्ञानाद्दुष्टन्वरामं चेत्स्वामिनो मरणं ध्रुवम् ।
उत्तरादाहसंयोगमालम्बो (ङ्गो) द्वययोर्मुखम् ॥ २२ ॥ 44
तन्मूलस्योपरि स्थाप्य चाग्रमेतदधोमुखम् ।
पादैरपि च सर्वेषां गृहं (द्वान्तं) संप्राप्य वश्य (संप्रशस्य) ते ॥ २३ ॥
आधारं प्राक्शयं दारु मूलाग्रं चोर्ध्व (ध्वें) तक्षयेत् ।
वैवस्वतं दिशं चैवं चान्तं चोपरि विन्यसेत् ॥ २४ ॥ 48
मूलमूर्ध्वे संश्लेष्य प्रत्यग्दारोश्च मूलतः ।
अधरश्लेषं दक्षिणतः चोर्ध्वं दारुम (रु चे) दं न्यसेत् ॥ २५ ॥
प्रत्यग्दारोश्च चाग्राधश्चोत्तरे दारुमूलकम् ।
प्राग्दार्वग्रमूर्ध्वे तु सौम्यदार्वग्र (ग्रं) निक्षिपेत् ॥ २६ ॥ 52
एतत्तु सर्वतोभद्रं प्रागादिदारु योजयेत् ।
तदेव दारुयोगं च नन्द्यावर्तमिहोच्यते ॥ २७ ॥