Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s17: सन्धिकर्मविधानम्
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s17
- Language
- English
सन्धिकर्मविधानम्
v3.c24.s17.1
सन्धिकर्मविधाने च लक्षणं वक्ष्यतेऽधुना ।
हर्म्याणां दारुसंयोगं (गः) सन्धिकर्ममु(र्मे ड)दीरितम् ॥ १ ॥
वृक्षमूले बलं युक्तं वृक्षाग्रे बलहीनकम् ।
तस्मात्तु बन्धयेत्सर्वं दारुसंमूलात्सु(लतः सु)धीः ॥ २ ॥
उक्तवद्दारु संगृह्य योजयेत्त(न्यं द्वि त)द्यंत्रेण तु ।
न वक्रं च न भिन्नं च न सुषिरं दारु सर्वशः ॥ ३ ॥
मल्लसंबद्ध(न्ध)सन्धिं च ब्रह्मराज (जं) द्वयं तथा ।
वेणुपूर्वाल्यसन्धिं च पूगपर्वं च सन्धिकम् ॥ ४ ॥
देवसन्धिसतथैिमे(र्षी)पुपर्वसन्धिं(न्धौ च) दण्ड(ण्डि)कम् ।
एतद(ते चा)ष्टविधं (धाः) प्रोक्तं(क्ता) दारुयोगेन सन्धिभिः(न्धयः) ॥ ५ ॥
दारुद्वयै(र्येनै)कसन्धिः स्यान्मल्ल बन्धमिति स्मृतम् ।
त्रिचतुर्दारुयोगेन द्वित्रिसन्धियथाक्रमम् ॥ ६ ॥
ब्रह्मराजमिति प्रोक्तं तन्त्रविद्भिः पुरातनैः ।
पञ्चदारु चतुःसन्धि(न्धिर) वेणुपर्वकमीरितम् ॥ ७ ॥
षड्दारु पञ्चसन्धिः स्यात्पूगपर्वं प्रशस्यते ।
सप्तदारुभिः षट्सन्धि(न्धिः) [स्याद्] देवसन्धिमि (रि)ति स्मृतम् ॥ ८ ॥
अष्टदारु [भिर्] ऋषिसन्धिमं(न्धिरि)पुपर्वाल्यसन्ध्रिकम् ।
तस्योपरि बहुसन्धि(न्धिः) बहुद्रव्यैश्च दण्डिकम् ॥ ६ ॥
पादानामुत्तराणां च कुड्यस्योत्तरदारुणाम् ।
सन्धिकर्मक्रमं सम्यगेक [क] वस्तुन्य (ह्या) नैककम् ॥ १० ॥
अन्तर्बहिश्च यत्त्वो(यामू)र्ध्वं तत्तत्सन्धिमि (रि)होच्यते ।
मल्लवन्धादि स्यादृष्टसन्धिः सर्वेषु धामसु ॥ ११ ॥
दीर्घं ह्रस्वं समं दारु योजयेदुक्तवत्क्रमात् ।
पुंदारुणां तु पुंदा 'न (रुणा) स्त्रीदारुं (रुं) स्त्रिया सह ॥ १२ ॥
युञ्जीत या(यत्) स्त्रिया सार्धं पुंदारु पतिना सह ।
नपुंसकं न युञ्जीत स्र्वेध्वपि गृहादिषु ॥ १३ ॥
v3.c24.s17.2
चतुर्दिक्षु वहिद्वारं र(चा) नन्तं प्रेक्ष्य संस्थितम् ।
ज्ञात्वा धीमान्मुहुर्देवान् (श्लिङ्गान्) दिनयेद्वा (नीत्वा च वा) मदक्षिणम् ॥ १४ ॥ 28
अन्तश्चतुर्दिशां दारु बहिः पश्येत् तन्मुखम् ।
ज्ञात्वा तु शिल्पिनां श्रेष्ठं (ष्ठो) दिव्यं दक्षिणवामकम् ॥ १५ ॥
दीर्घादिसर्वदारूणि (णां) विन्यासं वक्ष्यतेऽधुना ।
दक्षिणे विन्यसेद्दीर्घ कुब्जदारु तु दक्षिणे ॥ १६ ॥ 32
अथवा मध्यमे दीर्घं वाम (मा) वामे तु कुब्जकम् ।
त्रिदारुयोगसंपाते सममेतत्स्वधापि वा ॥ १७ ॥
दक्षिणां (शे) मध्यमं (मे) दीर्घं वामे दारु त्वदीर्घकम् ।
दारुमूलं तथाग्रं च संयोगं दारुसर्वशः ॥ १८ ॥ 36
दक्षिणोत्तरसायामं दारुमूलं च दक्षिणे ।
पूर्वपश्चिमयोर्दीर्घ दारुमूलं च पश्चिमे ॥ १९ ॥
प्रत्यग्दक्षिणयोर्दारु मूलसंयोग (गं) नैर्ऋते ।
पूर्वे चोत्तरतो दारु अग्रं (चाग्र) संयोगमीशके ॥ २० ॥ 40
अनलानिलकोणे तु चाग्रमूलं तु योजयेत् ।
कन्योत्तरं तु संयोगं मूलं तच्च षडश्रकम् ॥ २१ ॥
अज्ञानाद्दुष्टन्वरामं चेत्स्वामिनो मरणं ध्रुवम् ।
उत्तरादाहसंयोगमालम्बो (ङ्गो) द्वययोर्मुखम् ॥ २२ ॥ 44
तन्मूलस्योपरि स्थाप्य चाग्रमेतदधोमुखम् ।
पादैरपि च सर्वेषां गृहं (द्वान्तं) संप्राप्य वश्य (संप्रशस्य) ते ॥ २३ ॥
आधारं प्राक्शयं दारु मूलाग्रं चोर्ध्व (ध्वें) तक्षयेत् ।
वैवस्वतं दिशं चैवं चान्तं चोपरि विन्यसेत् ॥ २४ ॥ 48
मूलमूर्ध्वे संश्लेष्य प्रत्यग्दारोश्च मूलतः ।
अधरश्लेषं दक्षिणतः चोर्ध्वं दारुम (रु चे) दं न्यसेत् ॥ २५ ॥
प्रत्यग्दारोश्च चाग्राधश्चोत्तरे दारुमूलकम् ।
प्राग्दार्वग्रमूर्ध्वे तु सौम्यदार्वग्र (ग्रं) निक्षिपेत् ॥ २६ ॥ 52
एतत्तु सर्वतोभद्रं प्रागादिदारु योजयेत् ।
तदेव दारुयोगं च नन्द्यावर्तमिहोच्यते ॥ २७ ॥
v3.c24.s17.3
पूर्वे च शयितं दारु दक्षिणे निर्गमं भवेत् ।
दक्षिणे शयितं दारु पश्चिमे निर्गमं भवेत् ॥ २८ ॥
पश्चिमे शयितं दारु निर्गमं चोत्तरे तथा ।
उत्तरे शयितं दारु प्राग्दिशि निर्गमं भवेत् ॥ २९ ॥
आधाराधेययोगेन पूर्ववत्परिकल्पयेत् ।
नन्द्यावतमिति प्रोक्तं स्वस्तिकं वक्ष्यतेऽधुना ॥ ३० ॥
प्राक्शायितं दारु सर्वेषां दक्षमूलोत्तराग्रकम् ।
दक्षिणे शयितं दारु प्रत्यङ्मूलाग्रपूर्वकम् ॥ ३१ ॥
तद्द्वयोर्मूलमग्रं च चाग्निकोणे च बन्धनम् ।
प्रत्यग्दिक्शयितदारुर्मूलं चाम्येऽग्रमुत्तरे ॥ ३२ ॥
सौम्ये शयितदारूणां प्रत्यङ्मूलाग्रपूर्वकम् ।
वायुकोणे दिशं(शि) बन्धं त्रीणि दार्वी(र्वे)णानि एव वा ॥ ३३ ॥
दक्षिणे पश्चिमे सौम्ये दारु तत्प्रागुदग्रकम् ।
नैर्ऋते वायुकोणे च बन्धयेत्तद् द्विसन्धिकम् ॥ ३४ ॥
पूर्वे च दक्षिणे प्रत्यग्दारु प्रागुत्तराग्रकम् ।
वह्नेनैर्ऋत्यकोणे च दारु संबन्धयेत्सुधीः ॥ ३५ ॥
एतत्सवन्धिविरोधोऽस्ति चाधाराधेयपूर्ववत् ।
दारुमूलं तु सच्छिद्रं दार्वी(र्वे)ण्रं सशिखान्वितम् ॥ ३६ ॥
दक्षिणे दारुमूले च छिद्रं प्रत्यक् शिखान्वितम् ।
एतन्नैर्ऋतिकोणे तु युक्त्वा दारुं(रु) सं(च) योजयेत् ॥ ३७ ॥
एवं तु चाग्निकोणे तु युक्त्वा दारु सुयोजयेत् ।
सौम्ये च दारुमूले तु छिद्रं प्रत्यक्छि(शि)खान्वितम् ॥ ३८ ॥
एवं तु वायुकोणे तु कारयेत्तच्चकोत्तमः ।
एवं तु स्वस्तिकं प्रोक्तं युक्ताग्रे चैशकोणयुक् ॥ ३६ ॥
प्राच्ये दार्वी(रुणा) च सच्छिद्रं सौम्याम्रे च शिखान्वितम् ।
छिद्रयुक्तं तदाधारमग्रमिदं सशिखान्वितम् ॥ ४० ॥
वास्तुमध्ये ग(ङ्ग)णां युक्तं तद्बाह्ये वृतदारुणा ।
यथेशदिग्भद्रसंयुक्तं युक्ताद(क्ता)न्यैस्तु योगतः ॥ ४१ ॥
v3.c24.s17.4
आधाराधेयमाद्यैश्च सर्वं प्रागुक्तवन्नयेत् ।
वर्धमानमिति प्रोक्तं वर्धमाने तु विन्यसेत् ॥ ४२ ॥
अधोभूदारुयोगं च तयोध्र्वोर्ध्वं तथा न्यसेत् ।
अज्ञानाद्वैपरीत्यं चेत्सर्वसंपद्विनाशनम् ॥ ४३ ॥
तस्मात्परिहरेच्छिल्पी सर्वदाह [च] योगतः ।
दारुयोगकर्म प्रोक्तं दारुसन्धिरिहोच्यते ॥ ४४ ॥
यथारहितसन्ध्यक्यं(यः) तद्या योग्यं विचक्षणैः ।
स्तम्भानां दारुयोगेन चोक्तवच्चैव सन्धयः ॥ ४५ ॥
स्तम्भदारु त्रिभागैकं तन्मध्ये तु शिखां(खा) भवेत् ।
तुङ्गतारसमं कुर्यादूर्ध्वं कर्णं शिखान्वितम् ॥ ४६ ॥
अधः कर्णं मध्ये छिद्रं मेषयुद्धं हि योजयेत् ।
विस्तारं सप्तभागेन त्रिभागाधिकमायतम् ॥ ४७ ॥
अथवा सार्धमायामं विस्तारद्विगुणं तु वा ।
अथवा कर्णमाने वा सन्धिरेतत्(प) फणायतम्(तः) ॥ ४८ ॥
सर्वेषामपि दारूणां सन्धेः प्रान्ते तु योजयेत् ।
यथेष्टफलसंमाद्यं चोदयेद्विस्तृतार्थकम् ॥ ४९ ॥
मूलाग्रे कीलकं युक्तं अ(चा) धं प्राद्यभि(पाशिरि)ति स्मृतम् ।
तदेव द्विललाटे च विस्तारार्धाधंचन्द्रवत् ॥ ५० ॥
मध्ये च दन्तसंयुक्तमप्रमूले तु योजयेत् ।
शेषं तु पूर्ववत्कुर्यान्महावृक्षमिति स्मृतम् ॥ ५१ ॥
पतत्स्व(तेषु) वृत्तपादानां त्रिकर्णं वक्ष्यतेऽधुना ।
तदेवं(व) च त्रिकर्णं स्यात्तन्त्रिचूलिकमेव च ॥ ५२ ॥
स्वस्त्याकृतिं(ति) समायुक्तं बलात्कीलकसंयुतम् ।
त्रिकर्णाभमिति प्रोक्तं शेषं प्रागुक्तवन्नयेत् ॥ ५३ ॥
मेषयुद्धे चतुर्विंक्षु चतुःशूलं तु संयुतम् ।
चतुरश्राङ्घ्रिमध्ये तु पट्टयुक्तं सपट्टवत् ॥ ५४ ॥
दन्तसंयुक्तं सन्धिश्च सर्वतोभद्रमीरितम् ।
एतत्संधिविधिश्चाङ्घ्रि यथाशक्ति यथाबलम् ॥ ५५ ॥
v3.c24.s17.5
स्तम्भमध्या(ध्ये) यथोत्सेधं कुर्यादूर्ध्वं विशेषतः ।
यथाशङ्कूरया प्रान्ते युक्त्वा तत्रैव सन्धयः ॥ ५६ ॥
शिलास्तम्भं(म्भानां) तु सर्वेषां मेषयुद्धं प्रकल्पयेत् ।
पादायामविशालैश्च पूर्ववत्परिकल्पयेत् ॥ ५७ ॥
पादमूलविशाले तु षट्सप्तांश(शे) विभाजिते ।
एकैकमा(म)धिकं वापि पादमूलविशालकम् ॥ ५८ ॥
कुर्याद्द्वि(द्वं)शविशालं स्याहारवंशोन्नमन(न्नत)स्तथा ।
समं वाथ त्रिपादं वा चार्धं वा कुट्यचो(त्तो)त्तरे [च] ॥ ५९ ॥
विस्तारं तद्यथा कुर्यात्तुङ्गं प्रागुक्तवन्नयेत् ।
कुट्यवंश(शं) प्रति(ते)र्वंशं तुङ्गं यत्तु समं भवेत् ॥ ६० ॥
तुङ्गस्याधिकहीने चेद्विपङ्कि(क्ति) नित्यमावहेत् ।
पूर्वोक्तसन्धितीर्थेषु यन्मानोरम्यसंमदम् ॥ ६१ ॥
कुट्यस्योत्तरसन्धीनां प्रतिवंशविशालकं ।
सन्ध्यायामं तु सप्ताङ्गं कुर्यात्प्रागुक्तवत्सुधीः ॥ ६२ ॥
शङ्क(ङ्को)रा(र)श्चि च शल्यं च कीलं तु पर्याय(यं) च ।
वृ(वि)द्धं शूलं च दन्तं च शिखापर्यायवाचकाः ॥ ६३ ॥
सन्ध्या पादविष्कम्भं वसुसप्तषडंशकम् ।
तदे(ए)कांश(शं) कि(की)लविस्तारं शूलं तारं च मानयेत् ॥ ६४ ॥
शूलकीलद्वयोस्तेषां समतारमुदाहृतम् ।
दीर्घतारमिदं तं [च] समतारामकीलकम् ॥ ६५ ॥
शल्यायामं तु सर्वेषां यथायुक्तं(क्ति) यथाबलम् ।
कुर्यात्तु सन्धिमध्यस्य कीलपाश्र्वं तु कीलयेत् ॥ ६६ ॥
फलायामं तु तन्मध्ये पश्चात्कीलं प्रयोजयेत् ।
कीलात्फल्यमूलान्तं कीलतारं समेन च ॥ ६७ ॥
ऊर्ध्वं तत्फल्यप्रान्ते छेदयेत्तच्चकोचमः ।
कीलतारसमं कुर्यात्कीलं तु तत्फलामके ॥ ६८ ॥
दन्तत्रयसमायुक्तं मूलान्तं तत्फलामयोः ।
अधोदन्तस्य यं(यच्) च्छेषं चोर्ध्वदन्तस्य चोर्ध्वके ॥ ६९ ॥
v3.c24.s17.6
छेदयेद्दशने(न)मूला(ले) तच्छ्लक्षे(खायां) तत्प्रकीर्तितम् ।
विस्तारात्तुङ्गदेशे वा तत्तदर्थांश(शं) तत्सञ्चात्(चयेत्) ॥ ७० ॥
v3.c24.s17.7
पूर्ववच्छ्लक्ष्ण(खा)संयुक्तं मध्यकीलकं(लं तु) योजयेत् ।
ईषुदन्तमिति प्रोक्तं यथाशक्तिबलं न्यसेत् ॥ ७१ ॥
कर्कटाङ्घ्रिवत्कृत्वा पोत्रनासाङ्घ्रि वेशयेत् ।
मध्यकीलं तु संयोज्यं युक्त्या वलवशान्यसेत् ॥ ७२ ॥
v3.c24.s17.8
सूकरं(र)ग्राह्यमित्युक्तं वंशदण्डाम्रमूलयोः ।
संकीर्णकीलकं वक्ष्ये यथायुक्ति यथाबलम् ॥ ७३ ॥
नानासूलैश्च कीलैश्च संयुक्तं खलु दारुषु ।
एतत्संकीर्णसन्धि(न्धिः) स्यात्सर्वहर्म्येषु योग्यकम् ॥ ७४ ॥
v3.c24.s17.9
वज्रा(म्रा)कृतिषु शूलं स्याद् ब्रह्ममस्तकसन्धिकम् ।
एतत्पञ्चविधः सन्धिः सर्वेषां साधि(शयि)तेष्वपि ॥ ७५ ॥
कुर्यात्कुड्यस्य चैतेषु चाम्रदन्तं बहिर्भवेत् ।
मूलदन्तोपदन्तं स्यादाधाराधेय(यं) योजयेत् ॥ ७६ ॥
v3.c24.s17.10
पार्श्वयोर्योजितं दारु कुलीरामोपरि न्यसेत् ।
पार्श्वे दार्वी(र्वे)थमन्तरच्छेदो ह्यममूर्लं न मङ्गलम् ॥ ७७ ॥
दारुशैले यथामूलं पादमूलं तथा भवेत् ।
एकरूपा च षड्ढुं च(द्विश्च) सन्धिः स्यादेकरूपकम् ॥ ७८ ॥
v3.c24.s17.11
ऊर्ध्वोर्ध्वेपु तलेष्वेवं सर्वं कुर्याद्विचक्षणः ।
तत्तदङ्गानि सर्वाणि परितोऽपि (विपरीते) विनश्यति ॥ ७९ ॥
स्तम्भानामपि सर्वेषां दीर्घमूर्ध्वशिखान्वितम् ।
म(आ)नसान्तः शिखै(स्वाभि)र्युक्तं पुत्रपौत्रविनाशनम् ॥ ८० ॥
v3.c24.s17.12
स्तम्भमध्ये शिखायुक्तं मध्यपार्श्वशिखं तु चेत् ।
कर्तॄणां शोकवृद्धिं(द्धिः) स्यात्सन्ध्यङ्घ्रिवाह्यकं चेत् ॥ ८१ ॥
तथा सन्ध्यङ्घ्रिमध्यं चेत्सर्वसंपद्विनाशनम् ।
तस्मात्तत्स्तम्भमध्यं तु त्यक्त्वा तत्सन्धिसध्यमे(मम्) ॥ ८२ ॥
v3.c24.s17.13
रेखामात्राङ्घ्रि तन्मध्ये त्यक्त्वा कीलं प्रदक्षिणो ।
दण्डि(ण्डा)कारदार्वी(र्वे)ङ्घं सन्धिरेषां(पं) प्रकथ्यते ॥ ८३ ॥
v3.c24.s17.14
यत्कर्णदारुयोगेषु सन्धिस्तेषां तु नामतः ।
आदित्यो धर्मराजश्च जलेराश्च निशाधिपः ॥ ८४ ॥
एतच्चतुष्टयं दिक्षु विदिक्षु च तथोच्यते ।
वह्निर्नेऋतिर्वायुश्च वै(चे)शरचेशे(श्चैते) पृथक् तथा ॥ ८५ ॥
दारुसन्धी(न्धिमु)क्तसर्वेषां न(तु) कुर्याच्छिल्पि(ल्प)वित्तमः ।
गृहक्षतपदे चैव पुष्पदन्तस्य पदे तथा ॥ ८६ ॥
भल्लाटस्य पदे चैव महेन्द्रस्य पदे तथा ।
एतेषां तु गृहद्वारं कुर्यात्सन्धिं न कारयेत् ॥ ८७ ॥
तद्दण्डिते(के) तद्धिधाने तु विस्तारायामतो गृहे ।
मध्यकर्णद्वयोर्मध्ये वस्तु यन्मध्यमे तथा ॥ ८८ ॥
दन्तकीलं च संयुक्तं सन्धिरेतन्न कारयेत् ।
अन्य[त]सर्वेषु सन्धीनां(न्धीन्) वास्तुमध्ये न कारयेत् ॥ ८६ ॥
प्रतिवंशं दारुवज्रं ज्ञात्वा सव्यापसव्यकम् ।
सव्यमूले शिखं(खां) कुर्याद्वामे चाम्रशिखान्वितम् ॥ ६० ॥
तच्छ्लक्ष्णं मध्ययुक्तं चेत्सर्वसंपत्प्रदंत्करम् ।
दारुमूलाग्रयोः सर्वं सन्धी युक्ततरं भवेत् ॥ ६१ ॥
मूलेन वे(भे)दने दन्ते धर्मकामार्थनाशनम् ।
परितो दारुसन्धी च(चेद्) युक्तं सन्धि न विद्यते ॥ ६२ ॥
गृहान्तं चैकदारुं (रु) चेत्सन्धिभेदोऽपि नास्ति चेत् ।
वास्तुप्रदक्षिणं दारुकीलं चापि तथा न्यसेत् ॥ ६३ ॥
बाह्याष्टतदारूणि युद्धायुद्धं विचार्यते ।
युद्धभावं विदित्वाच चान्तदारू भवन्ति(ति) च ॥ ६४ ॥
तच्चतुर्दिशि दारूणि तत्तत्सन्धौ च शल्यकम् ।
प्राक् प्रत्यक् च युद्धं चेत्स्वामिनो मरणं ध्रुवम् ॥ ६५ ॥
दक्षिणोत्तरयोर्युद्धं पूर्वं(परं) तदोषभावहेत् ।
नूतनानि च दारूणि नूतनैरेव योजयेत् ॥ ६६ ॥
पुरायानि च दारूणि पुराणैरेव योजयेत् ।
नूतने च पुराणेन पुराणं नूतनेन च ॥ ६७ ॥
v3.c24.s17.15
न युज्यं च कृतेश(ते) चेत्तु राष्ट्रो(ष्ट्रे) दुर्भिक्षमावहेत ।
मध्योर्ध्वं दारुमन्यात्तु दण्डा(न्ता)दीनि त्रयान्तकम् ॥ ९८ ॥
दण्ड(न्त)पादेन वृद्धिः स्यात्स्थापयेत्कुजयादि(कीलकादी)नाम् ।
कु(की)लादिमूलद्रव्येषु यथाशक्ति यथारुचि ॥ ९६ ॥
कुर्यात्तु चोक्तवत्सन्धि विना(चेति) चोक्तं पुरातनैः ।
शैलजैः शयितैः सर्वैर्निशिखमेषयुद्रुकम् ॥ १०० ॥
अथवा शक्तिरूपं स्यादर्द्धादर्द्धमथापि वा ।
सर्वतोभद्रः सन्धिः स्याद्भवयुक्तितो न्यसेत् ॥ १०१ ॥
शिलाहर्म्यादिसर्वेषां प्रथमे वास्त(स्तु)मेव च ।
प्रत्यगूर्ध्वं ततः प्रान्ते नन्द्यावर्ताकृति(तिं) न्यसेत् ॥ १०२ ॥
वस्तुमध्यचरखस्य मध्यमे
सन्धिकीलयुत(तं) कर्तृनाशनम् ।
भक्तिपादवृद्धिष्कीलमूलकम्
सार्थनाशनजनवेदना[व]हकम् ॥ १०३ ॥
उपरि संस्थितदारुसमस्तकः
अथवा तत्रस्थितवाजनमाद्यकैः ।
सशिखरैरशिखोऽपि सर्वत
स्तपि च युक्तिवशादिभिर्योजयेत् ॥ १०४ ॥
अपि च युक्तिवशादपि योजयेत्
त्वपि च युक्तिरनुक्तिरनर्थकम् ।
न च दररहितं शिखया तु चेत्
क्रमविहीनं हि लक्षणमन्यथा ॥ १०५ ॥
कृतधनक्षयकर्तृविनाशनम्
तस्मात्सर्वं चोक्तवत्सन्धिराद्यैः ।
दारो(रोर्) मूलं चाग्रयो(यु)क्ताननं च
पार्श्वे चैतच्छिल्पिभिर्ज्ञाप्य कुर्यात् ॥ १०६ ॥
एवं संपदामास्पदं स्यात् ॥ १०७ ॥
v3.c24.s17.16
इति मानमारे वास्तुशास्त्रे सन्धिकर्मविधानं नाम सप्तदशोऽध्यायः।
Linked texts (1)
- Mānasāra — Sanskrit