Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s17.14
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s17.14
- Language
- English
v3.c24.s17.14
यत्कर्णदारुयोगेषु सन्धिस्तेषां तु नामतः ।
आदित्यो धर्मराजश्च जलेराश्च निशाधिपः ॥ ८४ ॥
एतच्चतुष्टयं दिक्षु विदिक्षु च तथोच्यते ।
वह्निर्नेऋतिर्वायुश्च वै(चे)शरचेशे(श्चैते) पृथक् तथा ॥ ८५ ॥
दारुसन्धी(न्धिमु)क्तसर्वेषां न(तु) कुर्याच्छिल्पि(ल्प)वित्तमः ।
गृहक्षतपदे चैव पुष्पदन्तस्य पदे तथा ॥ ८६ ॥
भल्लाटस्य पदे चैव महेन्द्रस्य पदे तथा ।
एतेषां तु गृहद्वारं कुर्यात्सन्धिं न कारयेत् ॥ ८७ ॥
तद्दण्डिते(के) तद्धिधाने तु विस्तारायामतो गृहे ।
मध्यकर्णद्वयोर्मध्ये वस्तु यन्मध्यमे तथा ॥ ८८ ॥
दन्तकीलं च संयुक्तं सन्धिरेतन्न कारयेत् ।
अन्य[त]सर्वेषु सन्धीनां(न्धीन्) वास्तुमध्ये न कारयेत् ॥ ८६ ॥
प्रतिवंशं दारुवज्रं ज्ञात्वा सव्यापसव्यकम् ।
सव्यमूले शिखं(खां) कुर्याद्वामे चाम्रशिखान्वितम् ॥ ६० ॥
तच्छ्लक्ष्णं मध्ययुक्तं चेत्सर्वसंपत्प्रदंत्करम् ।
दारुमूलाग्रयोः सर्वं सन्धी युक्ततरं भवेत् ॥ ६१ ॥
मूलेन वे(भे)दने दन्ते धर्मकामार्थनाशनम् ।
परितो दारुसन्धी च(चेद्) युक्तं सन्धि न विद्यते ॥ ६२ ॥
गृहान्तं चैकदारुं (रु) चेत्सन्धिभेदोऽपि नास्ति चेत् ।
वास्तुप्रदक्षिणं दारुकीलं चापि तथा न्यसेत् ॥ ६३ ॥
बाह्याष्टतदारूणि युद्धायुद्धं विचार्यते ।
युद्धभावं विदित्वाच चान्तदारू भवन्ति(ति) च ॥ ६४ ॥
तच्चतुर्दिशि दारूणि तत्तत्सन्धौ च शल्यकम् ।
प्राक् प्रत्यक् च युद्धं चेत्स्वामिनो मरणं ध्रुवम् ॥ ६५ ॥
दक्षिणोत्तरयोर्युद्धं पूर्वं(परं) तदोषभावहेत् ।
नूतनानि च दारूणि नूतनैरेव योजयेत् ॥ ६६ ॥
पुरायानि च दारूणि पुराणैरेव योजयेत् ।
नूतने च पुराणेन पुराणं नूतनेन च ॥ ६७ ॥