Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s17.15
Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s17.15
- Language
- English
v3.c24.s17.15
न युज्यं च कृतेश(ते) चेत्तु राष्ट्रो(ष्ट्रे) दुर्भिक्षमावहेत ।
मध्योर्ध्वं दारुमन्यात्तु दण्डा(न्ता)दीनि त्रयान्तकम् ॥ ९८ ॥
दण्ड(न्त)पादेन वृद्धिः स्यात्स्थापयेत्कुजयादि(कीलकादी)नाम् ।
कु(की)लादिमूलद्रव्येषु यथाशक्ति यथारुचि ॥ ९६ ॥
कुर्यात्तु चोक्तवत्सन्धि विना(चेति) चोक्तं पुरातनैः ।
शैलजैः शयितैः सर्वैर्निशिखमेषयुद्रुकम् ॥ १०० ॥
अथवा शक्तिरूपं स्यादर्द्धादर्द्धमथापि वा ।
सर्वतोभद्रः सन्धिः स्याद्भवयुक्तितो न्यसेत् ॥ १०१ ॥
शिलाहर्म्यादिसर्वेषां प्रथमे वास्त(स्तु)मेव च ।
प्रत्यगूर्ध्वं ततः प्रान्ते नन्द्यावर्ताकृति(तिं) न्यसेत् ॥ १०२ ॥
वस्तुमध्यचरखस्य मध्यमे
सन्धिकीलयुत(तं) कर्तृनाशनम् ।
भक्तिपादवृद्धिष्कीलमूलकम्
सार्थनाशनजनवेदना[व]हकम् ॥ १०३ ॥
उपरि संस्थितदारुसमस्तकः
अथवा तत्रस्थितवाजनमाद्यकैः ।
सशिखरैरशिखोऽपि सर्वत
स्तपि च युक्तिवशादिभिर्योजयेत् ॥ १०४ ॥
अपि च युक्तिवशादपि योजयेत्
त्वपि च युक्तिरनुक्तिरनर्थकम् ।
न च दररहितं शिखया तु चेत्
क्रमविहीनं हि लक्षणमन्यथा ॥ १०५ ॥
कृतधनक्षयकर्तृविनाशनम्
तस्मात्सर्वं चोक्तवत्सन्धिराद्यैः ।
दारो(रोर्) मूलं चाग्रयो(यु)क्ताननं च
पार्श्वे चैतच्छिल्पिभिर्ज्ञाप्य कुर्यात् ॥ १०६ ॥
एवं संपदामास्पदं स्यात् ॥ १०७ ॥