Pramāṇa · Search · About · API

Manasara Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Manasara-Shilpashastra; III. Manasara on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Manasara: Translation; V. Architecture of Manasara: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s17.5

Mānasāra Series (I. A Dictionary of Hindu Architecture; II. Indian Architecture according to Mānasāra-Śilpaśāstra; III. Mānasāra on Architecture and Sculpture: Sanskrit Text; IV. Architecture of Mānasāra: Translation; V. Architecture of Mānasāra: Illustrations; VI. Hindu Architecture in India and Abroad; VII. An Encyclopaedia of Hindu Architecture) v3.c24.s17.5

Language
English

v3.c24.s17.5

स्तम्भमध्या(ध्ये) यथोत्सेधं कुर्यादूर्ध्वं विशेषतः ।
यथाशङ्कूरया प्रान्ते युक्त्वा तत्रैव सन्धयः ॥ ५६ ॥
शिलास्तम्भं(म्भानां) तु सर्वेषां मेषयुद्धं प्रकल्पयेत् ।
पादायामविशालैश्च पूर्ववत्परिकल्पयेत् ॥ ५७ ॥
पादमूलविशाले तु षट्सप्तांश(शे) विभाजिते ।
एकैकमा(म)धिकं वापि पादमूलविशालकम् ॥ ५८ ॥
कुर्याद्द्वि(द्वं)शविशालं स्याहारवंशोन्नमन(न्नत)स्तथा ।
समं वाथ त्रिपादं वा चार्धं वा कुट्यचो(त्तो)त्तरे [च] ॥ ५९ ॥
विस्तारं तद्यथा कुर्यात्तुङ्गं प्रागुक्तवन्नयेत् ।
कुट्यवंश(शं) प्रति(ते)र्वंशं तुङ्गं यत्तु समं भवेत् ॥ ६० ॥
तुङ्गस्याधिकहीने चेद्विपङ्कि(क्ति) नित्यमावहेत् ।
पूर्वोक्तसन्धितीर्थेषु यन्मानोरम्यसंमदम् ॥ ६१ ॥
कुट्यस्योत्तरसन्धीनां प्रतिवंशविशालकं ।
सन्ध्यायामं तु सप्ताङ्गं कुर्यात्प्रागुक्तवत्सुधीः ॥ ६२ ॥
शङ्क(ङ्को)रा(र)श्चि च शल्यं च कीलं तु पर्याय(यं) च ।
वृ(वि)द्धं शूलं च दन्तं च शिखापर्यायवाचकाः ॥ ६३ ॥
सन्ध्या पादविष्कम्भं वसुसप्तषडंशकम् ।
तदे(ए)कांश(शं) कि(की)लविस्तारं शूलं तारं च मानयेत् ॥ ६४ ॥
शूलकीलद्वयोस्तेषां समतारमुदाहृतम् ।
दीर्घतारमिदं तं [च] समतारामकीलकम् ॥ ६५ ॥
शल्यायामं तु सर्वेषां यथायुक्तं(क्ति) यथाबलम् ।
कुर्यात्तु सन्धिमध्यस्य कीलपाश्र्वं तु कीलयेत् ॥ ६६ ॥
फलायामं तु तन्मध्ये पश्चात्कीलं प्रयोजयेत् ।
कीलात्फल्यमूलान्तं कीलतारं समेन च ॥ ६७ ॥
ऊर्ध्वं तत्फल्यप्रान्ते छेदयेत्तच्चकोचमः ।
कीलतारसमं कुर्यात्कीलं तु तत्फलामके ॥ ६८ ॥
दन्तत्रयसमायुक्तं मूलान्तं तत्फलामयोः ।
अधोदन्तस्य यं(यच्) च्छेषं चोर्ध्वदन्तस्य चोर्ध्वके ॥ ६९ ॥